harivaMsha, Volume II, Appendix 1, pp.54-62, BORI 1971

१२
itranslated by A. Purushothaman, purushothaman_avaroth @ yahoo.com

कृष्णस्य नीलया सह विवाहः
12a (pp. 54-57)
वैशंपायन उवाच
स्यालोऽथ नन्दगोपस्य मिथिलेषु गवां पतिः |
प्रवृद्धगोधनो दक्षः कुम्भको नाम नामतः || १२अ-१ ||

दाता दुग्धस्य सर्वेषां तक्रस्य च घृतस्य च |
जनस्य प्रियवाङ् नित्यं यशोदाया जघन्यजः || १२अ-२ ||

धर्मदा तस्य भार्यासीद्धर्मदैव च नामतः |
सा सूतापत्ययुगलं शोभनं गोपभूषणम् || १२अ-३ ||

तस्योस्तत्र पुमाञ्जातः श्रीदामा नाम विश्रुतः |
सर्वैश्च सद्गुणैर्युक्तः सर्वप्राणिमनोरमः || १२अ-४ ||

नीला नाम च कन्यासीद्रूपौदार्यगुणान्विता |
हसन्ती गमनैर्हंसान्भूस्पृष्टचरणान्मुहुः || १२अ-५ ||

पद्मपत्रनिभौ पादौ वर्तुलायतजङ्घिनी |
लीनास्थिजानुसंधाना मांसलोरुद्वया मृदुः || १२अ-६ ||

रथविस्थीर्णजघना मृदूत्कीर्णगळत्रिका |
विशालोरुसमाविष्टा चक्रनाभिर्मनोरमा || १२अ-७ ||

क्रमादूर्द्ध्ववली निम्नतनुमध्यतनूरुहा |
सुवर्णकुम्भसदृशौ दृढौ पीनौ स्तनौ मृदू || १२अ-८ ||

धारयन्ती मृदुस्पर्शा कामस्य जननी नृणाम् |
कम्बुग्रीवा सुनासा सा सुकपोलमनोहरा || १२अ-९ ||

शुभविद्रुमबिम्बोष्ठी सुदती शुभनासिका |
विनिद्राम्बुजवक्त्रा सा नीलोल्पलनिभेक्षणा || १२अ-१० ||

विलासिनी सुकर्णान्ता स्मरचापनिभे उभे |
भ्रूवौ दधाना सुस्निग्धा अर्धचन्द्रललाटिका || १२अ-११ ||

दीर्घकुञ्चितकेशाढ्या लक्षणैः सकलैर्युता |
त्रिलोकरत्नभूता सा विस्वचित्तविलोलिनी |
यौवनस्था सुकान्ताङ्गी देवमर्त्यविलोभिनी || १२अ-१२ ||

तां वव्रुः सर्वभूपला भूयो भूयो विशां पते |
न तेषां कस्य्स्चिद्दत्ता पित्रा विधिबलाश्रयात् || १२अ-१३ ||

एतस्मिन्नेव काले तु वृषरूपा महासुराः |
कालनेमिसुताः सप्त विक्रान्ता बाहुशालिनः || १२अ-१४ ||

तदा देवासुरे युद्धे विष्णुना प्रभविष्णुना |
सम्ग्रामान्बहुशः कृत्वा तेन युद्धे जितास्तदा |
दिशो मूढाः प्रजग्मुस्ते विष्णुं हन्तुं समुद्यताः || १२अ-१५ ||

यावत्कृष्णो यदुकुले जातो दैतेयसत्तमाः |
ज्ञात्वा विष्णुं यदुकुले यत्नवन्तः समुत्थिताः || १२अ-१६ ||

वृषरूपधराः सप्त कुम्बकस्य व्रजे वसन् |
बलवन्तो महाशृङ्गा महाकुक्षिशिरोधराः || १२अ-१७ ||

लम्बसास्ना महाग्रीवा महाकुम्भककुद्मिनः |
पृथुदीर्घमहावालाः पृथुतीक्ष्णखुराः खराः || १२अ-१८ ||

दीर्घवक्त्रा दीर्घदन्ताः कुण्डनेत्रा सुकर्णकाः |
नित्यदृप्ता महाह्रादास्त्रासिताः शेषगोगणाः || १२अ-१९ ||

ते वृषाः सर्वतो जग्नुर्गाश्च वत्साम्श्च दुर्मदाः |
गर्भानास्त्रावयन्सर्वान्गवां सस्यान्यभक्षयन् || १२अ-२० ||

विदेहसस्यजातानि भक्षयित्वा मुहुर्मुहुः |
सस्यानां पालकान्सर्वानाधावन्ति स्म सर्वतः |
कुम्भकस्य व्रजे रात्रौ वसन्ति स्म मुदान्विताः || १२अ-२१ ||

कृषीवलास्ततः सर्वे राज्ञो मिथिलवर्मणः |
न्यवेदयंस्तदा सर्वं वृषैः सस्यविनाशनम् || १२अ-२२ ||

यान्येव तव सस्यानि राष्त्रे जातानि सर्वशः |
भक्षितानि समस्तानि कुम्भकस्य वृषैर्नृप |
सप्तभिस्तैः समुद्रिक्त्तैर्दमनेन विवर्जितैः || १२अ-२३ ||

ते निवार्या महीपाल यदि ते स्याज्जगत्रयम् |
सादयन्ति मुहुः सर्वान्नष्टा राजन्भवत्प्रजाः || १२अ-२४ ||

इति तेषां वचः श्रुत्वा राजा जनकसंभवः |
दूतैः कुम्भकमाहूय वचनं चेदमब्रवीत् || १२अ-२५ ||

तव सप्त वृषा गोप निर्दमाः सस्यघातकाः |
दम्यन्तामद्य सर्वे ते व्ऱिषाः सर्वप्रयत्नतः || १२अ-२६ ||

अन्यथा दण्ड्य एव स्यात्सबन्धुः सप्रजो भवान् |
गच्छ गोपैर्मतियुतैर्दमने कुशलैः समं |
दम्यन्तां ते वृषाः सप्त न भयं विद्यते तव || १२अ-२७ ||

अथ रात्रौ क्वचिद्दृप्तान्दानवान् वृषरूपिणः |
गोपालैरपरैः सार्धं नियन्तुमुपचक्रमे |
रज्जुहस्तास्तदा सर्वे मन्दं मन्दमुपाययुः || १२अ-२८ ||

अथ ते बल्लवान्दृष्ट्वा रज्जुहस्तान्समन्ततः |
हुंभारवं प्रकुर्वाणा गोपानेवाभिदुद्रुवुः |
तान्खुरैः शृङ्गकोणैश्च समाजग्मुः समन्ततः || १२अ-२९ ||

ते हता गोपमुख्यास्तैर्गतप्राणाः समं भुवि |
पतिताः शेरते भूमौ वज्रभग्ना इवाचलाः || १२अ-३० ||

दारका दारिका वत्सास्तैर्हताः पतिता भुवि |
शेरते मृतभूयिष्ठाः कुम्भकस्य व्रजे स्म ह || १२अ-३१ ||

निश्चेष्टमभवत्सर्वं व्रजं निहतदारकं |
न शेकुस्ते वृषान्रोद्धुं दृढैर्दामाभिरुद्यताः |
निर्वीर्योः सर्व एवामि भग्नास्तैर्वृषरूपिभिः || १२अ-३२ ||

व्रजे तस्मिन्महीपाल निहते च तथा हते |
विसंज्ञः कुम्भको भूत्वा निश्चेष्टः समपद्यत || १२अ-३३ ||

ततो विमृश्य तैर्गोपैर्मतिमेवं समादधे |
तप्तानां वृषमल्लानां दमिता यो भवेद्भुवि |
तस्मै कन्यां प्रदास्यामि नीलां नीरदलोचनाम् || १२अ-३४ ||

गोपाः सर्वे समायान्तु ये गोपा गोषु जीविनः |
शूद्रा वा ये समर्थाः स्युस्ते च गच्छन्तु सर्वशः |
एवमाघोषयामास कुम्भकः स व्रजे किल || १२अ-३५ ||

December 09, 2008


12b (pp. 57-58)
वैशंपायन उवाच
ततो गोपगणः सर्वो मिथिलामन्ववर्तत |
वृषान्सप्त समाहत्य नीलां गृह्णाम यत्नतः |
इति गोपाः समाजग्मुः प्रत्येकं तां जिघृक्षवः || १२ब्-१ ||

मिथिला राजधानी सा न क्वचिद्बल्लवैर्विना |
गोपालमयमेवैतद्राष्ट्रं मिथिलवर्मणः || १२ब्-२ ||

ते गोपास्त्वायतभुजा विस्तीर्णबलसंयुताः |
आस्फोटितभुजा मत्ताः प्रत्येकं वृषमन्वयुः || १२ब्-३ ||

कुम्भकस्य तदा दूतैराहूतो गोपनन्दनः |
गोपालैरपरैः सार्धं नन्दगोपः समाययौ || १२ब्-४ ||

रामकृष्णौ च संयातौ कुम्भकस्य व्रजं किल |
दारकैरपरैः सार्धं सवयोभिर्मुदान्वितैः || १२ब्-५ ||

मयूराङ्गतचित्राङ्गौ नीलकुञ्चितमूर्धजौ |
पीते वसानौ वसने हरिचन्दनचर्चितौ || १२ब्-६ ||

वनमालाकृतोरस्कौ दामयज्ञोपवीतिनौ |
शिक्यालम्बद्घटकरौ पर्णवाद्यविनोदिनौ || १२ब्-७ ||

किंकिणीजालसंह्रादौ शिखिपिच्छैरलंकृतौ |
वेणुवीणाकृतरवौ शृङ्गध्वनिसमाकुलौ |
दिविस्थैर्देवगन्धर्वैरनुयातौ महामती १२ब्-८
गोपास्ते नौभिरुत्तीर्य यमुनामूर्मिमालिनीम् |
गङ्गां चैवाभिसंयाता मिथिलां कृष्णसंयुताः || १२ब्-९ ||

कुम्भकश्च महाबुधिर्मैथिलेयो मुदान्वितः |
नन्दगोपं तदा दृष्ट्व सपुत्रं च समागतं || १२ब्-१० ||

उत्थायाग्रे समागम्य समालिङ्ग्य मुदान्वितः |
बृसीं संचोदयामास यशोदां चैव धर्मदा || १२ब्-११ ||

बलभद्रस्य कृष्णस्य श्रीदामा चासनं ददौ |
कृसरं पायसं चैव तथा दद्योधनं बहु |
निवेद्य नन्दगोपाय सपुत्राय मुदान्वितः || १२ब्-१२ ||

अपूपाः सक्तवो धानाः शर्कराक्षीरमिश्रिताः |
दत्ताः कृष्णाय रामाय नन्दायाथ सजातये || १२ब्-१३ ||

एवं प्रीताः सुमनसो नन्दगोपपुरःसराः |
ऊषुः सुखं तदा रात्रौ गोपालाः सर्व एव ते || १२ब्-१४ ||

अथ तस्यां वृषा रात्रौ गोषु वैशसनं मुहुः |
प्रत्येकं सप्त ते मल्ला दानवा वृषरूपिणः |
वत्साञ्जघ्नुरथो गाश्च कुतीर्भूयो बभन्ञ्जिरे || १२ब्-१५ ||

आगन्तुकांस्तदा गोपान्रात्रौ युद्धाय निःसृतान् |
जघ्नुः शृङ्गैः खुरैश्चैव शिष्टा गोपा दिशो ययुः |
हुम्भारवं प्रकुर्वन्तो दिग्गजा इव तस्थिरे || १२ब्-१६ ||

रज्जूश्छित्वा घटन्भित्वा कीलकानथ शिक्यकान् |
वत्सान्विद्रावयामासुर्गाश्च राजन्दिशो दश || १२ब्-१७ ||

ततः प्रभाते विमले व्युष्टा सा रजनी किल |
वृषास्तथुर्महानादास्तस्मिन्कुम्भकवेश्मनि || १२ब्-१८ ||

दिग्गजा इव संह्नादं हुम्भारवपुरःसरम् |
चक्रिरे पर्वताकाराः कालान्तकयमोपमाः || १२ब्-१९ ||

December 10, 2008


12c (pp. 58-60)
वैशंपायन उवाच
अथ तस्यामवस्थायां निश्चेष्टः कुम्भकः किल |
वृषांस्तथाविधान्दृष्त्वा व्रजनिःशेषकारिण |
गोपान्सर्वान्समाहूय वचनं चेदमब्रवीत् || १२च्-१ ||

श्रूयन्तां मम वाक्यानि गोपा नन्दपुरःसराः |
वृषाः सप्त समुद्भूता व्रजेऽस्मिन्मददुर्मदाः || १२च्-२ ||

सिंहा इव ग्रहाक्रान्ता दिग्गजा इव दंशिताः |
अप्रतर्क्या अनासाद्या गोपगोपीव्यतिक्रमाः || १२च्-३ ||

यत्नाश्च बहवोऽस्माभिः कृता रोद्धुमिमान्मुहुः |
एषामेकं बलाद्योद्द्धुं न शक्ताः स्मेति संगताः |
भीतास्तेभ्यो मुहुर्गोपा विसंज्ञा पर्यटामहे || १२च्-४ ||

किं च राज्ञा मुहुर्दण्ड्या वयं मिथिलवर्मणा |
गतिमेषां न जानीमो नागतिं न च चिन्तितम् || १२च्-५ ||

न च ते केवलवृषा राक्षसा वा वृषात्मना |
दैत्या वा दानवा वापि यक्षगन्धर्व एव वा |
अस्मदुत्सादनार्थाय व्रजेऽस्मिन्समुपस्थिताः || १२च्-६ ||

युष्माकमागतानां तु यो वृषान्दमयिष्यति |
तस्येयं सर्वकल्याणी नीला देय मनस्विनी |
नीला सुमध्यमा तस्मै दत्ता कमललोचना || १२च्-७ ||

इत्युक्त्वाहूय तां कन्यां गोपमध्ये करोत्थिताम् |
यूनां मनांसि चाक्षीणि तस्यामेव प्रपेदिरे || १२च्-८ ||

स्तनयोः स्थितिमाजग्मुः केषंचिन्नेत्रपङ्कजे |
अन्येषामधरे चैव परेषां च सुमध्यमे |
एवं व्यालोलमनसो गोपाश्चित्रस्थिता इव || १२च्-९ ||

तत्र नन्दसुतः कश्चिज्ज्येष्ठः कृष्णस्य संमतः |
स तदाघोषयद्वाचा दमयिष्ये वृषानमून् |
इति प्रतस्थे तान्हन्तुं दैतेयान्वृषरूपिणः || १२च्-१० ||

भुजावास्फोट्य रुद्धोऽपि पित्रा यत्नवता तदा |
इयेष योद्धुं मन्दात्मा यान्न शक्नोति माधवः || १२च्-११ ||

रावणस्य रणे हन्त यश्च हन्ता सुमालिनः |
तेषां मध्ये समास्थाय हुम्भारवमथाकरोत् || १२च्-१२ ||

तेन शब्देन ते सप्त वृषा घोषवतः पुरः |
खुराञ्शृङ्गान्समुद्धृत्य समुत्तस्थुः समुद्यतः || १२च्-१३ ||

तेषाम् स्थितानामेकस्य घोषवान्मस्तकेऽहनत् |
ततो गोपाः समागम्य सिंहनादं व्यनीनदन् || १२च्-१४ ||

आहतो मस्तके सोऽथ वृषो घोषवता तदा |
अग्रे खुराभ्यामाहृत्य घोषवन्तं ददंश ह || १२च्-१५ ||

पुनः शृङ्गेना तं हत्वा खुराभ्यां दूरतो,अक्षिपत् |
व्यनीनदच्च सहसा गोपान्विद्रावयंस्तदा || १२च्-१६ ||

युवानस्त्वथ ये गोपा नीलाग्रहणलालसाः |
मुष्टिं संवर्त्य संवर्त्य भुजास्फोटनतत्पराः |
गोपलीलां प्रकुर्वन्तस्तेषामग्रे पदं दधुः || १२च्-१७ ||

स्थितेषु गोपवीरेषु ते वृषा गोपघातकाः |
सर्वांस्ताञ्शृङ्गकोणैश्च निजघ्नुः सर्वतस्ततः |
मस्तकैश्च खुरैश्चैव न्यहनन्मुदिता भृशम् || १२च्-१८ ||

ते गोपा वृषदैत्यैश्च निहता भुवि पातिताः |
गतान्भिमुखं हत्वा संस्थिताः सुमहावृषाः || १२च्-१९ ||

हुम्भारवनिनादेन भीषयन्तः सगोगणान् |
गोपालान्गोपमुख्यांश्च बलाद्विद्राव्य दंशितान् |
वल्मीकान्खादयन्तो वै तटघातं प्रचक्रिरे || १२च्-२० ||

कुम्भको नन्दगोपश्च ये वृद्धा गोषु जीविनः |
कृत्यमूढाः सुसंवृत्तास्तदा गोपपुरःसराः |
राज्ञो भीता बभूवुश्च दण्ड्या वयमिति स्थिताः || १२च्-२१ ||

December 11, 2008


12d (pp. 60-61)
वैशंपायन उवाच
अथ कृष्णस्तदा रामं बभाषे वैशसे सति |
नैते वृषा महाभाहो दैत्याः सप्त समुत्थिताः || १२द्-१ ||

कालनेमिसुता आर्य मां हन्तुमिह संगताः |
पुरा मया हता युद्धे तदा तारामये विभो || १२द्-२ ||

एतेऽतिबलिनो नित्यं मयि विद्वेषकारिणः |
निहन्तव्या मया राम गोगोपान्रक्षता समम् || १२द्-३ ||

एतैर्गोपा हता भूयो भूयो हन्तुं समुद्यताः |
वयमेतैर्यथायोगं क्रीडां कुर्मः सगोपकाः || १२द्-४ ||

नन्दश्च कुम्भकश्चोभौ विषण्णौ समपद्यताम् |
रक्षितव्यौ बलादेतौ गोपौ बन्धू मया विभो || १२द्-५ ||

नीलामेनां ग्रहिष्यामि हत्वा सप्त वृषानिमान् |
श्रीदामानं सखित्वेन ग्रहिष्यामि न संशयः || १२द्-६ ||

इति निश्चित्य रामेण कृष्णः कमललोचनः |
पुरस्तेषां पदं चक्रे वृषाणां बलशालिनां || १२द्-७ ||

ते वृषा दितिजाः क्रुद्धा विष्णुं दृष्ट्वा पुरःस्थितम् |
पूर्ववैरं समाश्रित्य पराहन्तुं प्रचक्रमुः || १२द्-८ ||

ते समं सहसा पेतुः कृष्णस्योपरि दानवाः |
ततो युद्धं समभवत्तेषां कृष्णस्य च प्रभो || १२द्-९ ||

ततो गोपगणः सर्वे कृष्णमेवाश्रिताभवन् |
शृङ्गैस्ते सहसा जघ्नुः कृष्णं हन्तुमभीप्सवः || १२द्-१० ||

पादप्रहारैरपरैः पुच्छघातैश्च केशवम् |
पृथ्क्पृथक्समाहन्युः प्रत्येकं वृषदानवाः |
दन्तैर्ददंशुरपरे खुरैरन्ये जनार्दनम् || १२द्-११ ||

ततः कृष्णो रुषा मुष्टिं संनिहित्य जघान ह |
तेषामेकं क्षणाद्धत्वा पुनरन्यं जघान ह || १२द्-१२ ||

क्रमेण मुष्ट्या तान्सर्वान्हत्वा दैतेयगोपतीन् |
नीलां हस्ते गृहीत्वाथ कृष्णस्तस्मिन्व्यरोचत || १२द्-१३ ||

कुम्भको नन्दगोपं तं प्रोवाच व्रजसंसदि |
प्रसादात्तव पुत्रस्य जीवामो विगतज्वराः |
सपुत्राः सह गोपालैः सवत्सा गोधनैः समम् || १२द्-१४ ||

वृषैश्च सप्तभिर्नन्द हता गावः सहस्रशः |
गर्भाश्च निःसृतास्तावद्वत्सास्तावन्त एव हि |
यतस्ते निहता नन्द सुखं तस्मादवाप्नुमः || १२द्-१५ ||

गोसहस्रं तव विभो महिषा महिषीशतं |
यावदिच्छसि वा नन्द तावत्ते वै ददाम्यहम् |
नीलायै लक्ष्मयुतं दास्यामि बहुगोधनम् || १२द्-१६ ||

नन्दगोप उवाच
अलं मम विभो तात गोभिर्वत्सैर्धनैरपि |
तिष्ठन्तामद्य गावस्ते गावो मे बहवो मताः || १२द्-१७ ||

घृतवत्यः क्षीरवत्यो बभूवूः पुत्रजन्मतः |
यदा च कृष्ण उद्भूतस्तदाप्रभृति मे व्रजे || १२द्-१८ ||

यावद्दुग्धं समुद्भूतम् तावदेव घृतं भवेत् |
गुल्मे गुल्मे मधु भवेत्स्वादू स्वादू भवत्यलम् || १२द्-१९ ||

गावो वत्साश्च नीरोगा जाते कृष्णे व्रजे मम |
अल्पकं न च मे स्यात्तद्गेहे स्वं कृष्णसंनिधौ || १२द्-२० ||

यास्याम्यहमथो गोप गृहायाभ्यनुजानताम् |
इत्युक्त्वा प्रययौ नन्दः सव्रजः सहगोगणः || १२द्-२१ ||

कृष्णश्च नीलया सार्धं श्रीदाम्ना सह संगतः |
साकं च बलभद्रेण ययौ वृन्दावनं वनम् |
प्राप्य वृन्दावनं गोपा रेमिरे सह केशवाः || १२द्-२२ ||

December 12, 2008


12e (pp. 62)
जनमेजय उवाच
अहो चित्रमहो चित्रं माधवस्य जगत्पतेः |
क्रीडेयं वासुदेवस्य गोपलीलां प्रकुर्वतः || १२ए-१ ||

धन्यास्त एव देवेशं गोपवेषविभूषितम् |
अपश्यन्देवमीशं ये मयूराङ्गदभूषणम् || १२ए-२ ||

कीलदामास्थितकरं किंकिणीक्वणिताङ्गदम् |
तालगेयरतं देवं पर्णवाद्यान्तरैषिणम् || १२ए-३ ||

बाणपुष्पस्फुटन्मौलिं नीलमेघनिभं हरिं |
पश्यन्ति देवमीशेशं नमस्तेभ्यः पुनः पुनः || १२ए-४ ||

हत्वा वृषान्हरिः सप्त पुनरागम्य माधवः |
वृन्दावनं सरामस्तु गोपैः सह महामुने |
अकरोक्तिं जगन्नाथस्तन्मे ब्रूहि तपोधन || १२ए-५ ||

वैशंपायन उवाच
तस्यां शरदि गोविन्दः सुखं वृन्दावने वने |
चचार गोधनैः साकं जगतां प्रीतिवर्धनः || १२ए-६ ||

December 12, 2008


Source: Southern Recension of Harivamsa
Experimental utf-8 devanagari version created using ITRANS on