harivaMsha, Volume II, Appendix 1, pp.71-73, BORI 1971

itranslated by A. Purushothaman, purushothaman_avaroth @ yahoo.com

१७
यादवजरासंधयुद्धम्
रुक्मिणं पञ्चविंशत्या वासुदेवः समर्पयत् |
आजघ्ने केशवं ताभ्यां शराभ्यां भोजवर्धनः || १७ -१ ||

रुक्मी तु वासुदेवस्य ज्यां छेत्तुं परिचक्रमे |
ज्ञात्वैव वासुदेवोऽपि धनुश्चिच्छेद तस्य ह || १७-२ ||

संछिन्नधन्वा भोजोऽपि शक्तिं जग्राह संयतः |
तया जघ्ने हरिं वीरः सोऽच्छिनत्तां शरैरपि || १७-३ ||

चिच्छेद तां जगन्नाथ सर्वक्षत्रस्य पश्यतः || १७-४ ||

परिघेण समाजघ्ने वासुदेवं स राजकः |
तद्द्विधा शस्त्रसंपातैरकरोद्यदुपुंगवः || १७-५ ||

रथचक्रं समादाय विष्णुं विव्याध राजकः |
तिलशश्च तथा देव तच्चक्रं कृतवाञ्शरैः १७-६
यद्यदस्त्रं समादत्ते रुक्मी भीष्मकनन्दन |
तत्तत्तत्र द्विधा कृत्वा जहास यदुनन्दनः || १७-७ ||

तत्त्रीरथं विचक्रं च कृतवान्यदुनन्दनः |
विशस्त्रं विधनुष्कं च चकार मधुसूधनः || १७-८ ||

सप्राणं कृतवान्कृष्णः सर्वक्ष्त्रस्य पश्यतः |
अवेक्ष्य रुक्मिणीं कृष्णो रुक्मिणं न व्यशातयत् || १७-९ ||

आहुकः पञ्चविंशत्या भीष्मकं प्रजघान ह || १७-१० ||

भीष्मकोऽथ च राजेन्द्र शराणां च परःशतैः |
उग्रसेनं समाजघ्ने मर्मज्ञो मर्मभेदिभिः || १७-११ ||

आहुकस्तु धनुश्छित्त्वा भीष्मकस्य महात्मनः |
रथं चास्य प्रचिछेद ध्वजं च यदुपुंगवः || १७-१२ ||

सारथिं च हयांस्तस्य जघानयदुनन्दनः |
अपायात्समरात्तस्माद्भीष्मकस्तु श्रमान्वितः || १७-१३ ||

वसुदेवस्तु राजेन्द्र क्राथं विव्याध पत्रिभिः |
क्राथस्तु राजन्विव्याध शरैः सप्तभिराशुगैः |
सारथिं च जघानाशु तथोभौ पार्ष्णिसारथी || १७-१४ ||

वसुदेवस्ततः क्रुद्धो धनुश्चिछेद पत्रिभिः |
विरथं च जघानाशु जरासंधस्य पश्यतः || १७-१५ ||

विरथो विधनुष्कश्च प्रययौ मागधं प्रति || १७-१६ ||

बभ्रुः कौशिकराजं तं विव्याध विविधैः शरैः |
अथ बभ्रुर्महात्मानं विव्याध निशितैः शरैः || १७-१७ ||

कौशिकश्च तथा बभ्रुं मर्मज्ञो मर्मभेदिभिः |
भृशं विव्याध समरे तदभुतमिवाभवत् || १७-१८ ||

निचकर्त महाबाहुर्जरासंधस्य पश्यतः || १७-१९ ||

अथ हत्वा महात्मानं बभ्रुश्च सुमहाबलः |
सिंहनादं चकाराशु सैन्यमध्ये महाकृतिः || १७-२० ||

चेदिराजो महाराज सहसा यदुनन्दनम् |
विरथं विधनुष्कं च कृतवांश्चोदिपः किल |
वसुदेवसमीपं तु ययौ यादवसत्तमः || १७-२१ ||

दन्तवक्त्रं महाराज शंभुस्तु बहुशस्तदा |
शरैः शस्त्रायसोदग्रैर्विव्याध यदुनन्दनः || १७-२२ ||

सात्यकिश्च महाराज विव्याधावन्तिनन्दनौ || १७-२३ ||

तौ च राजन्महात्मानौ सात्यकिं सत्यविक्रमम् |
पीडयांचक्रतू राजन्सर्वमर्मसु पत्रिभिः || १७-२४ ||

सात्यकीर्विमुखीकृत्य तौ च राजन्महाबलौ |
विव्याध निशितैर्बाणैः सर्वराजन्यमध्यगौ || १७-२५ ||

तौ च तम् सात्यकिं वीरं जघ्नतुश्च शितैः शरैः |
विन्दानुविन्दवावन्त्यौ राजानौ यदुनन्दनः || १७-२६ ||

सात्य्किः पञ्चविंशत्या तौ च राजन्महामतिं |
समाजघ्ने च राजेन्द्र सर्वक्षत्रस्य पश्यतः || १७-२७ ||

सात्यकेश्च धनुर्बाणं रथं सारथिमेव च |
उभौ विव्याधतू राजन् वासुदेवस्य पश्यतः || १७-२८ ||

क्रुद्धोऽथ सात्यकिस्तौ तु गदयाभिजघान ह |
स्तनयोश्च तदा राजन्बाह्णोरुरसि चार्पयत् |
रथं च चूर्णयामास तथोभौ पार्ष्णिसारथी |
आयुधानि च सर्वाणि पोथयामास यादवः || १७-२९ ||

पुनश्च गदया चासु जघान यदुनन्दनः |
हन्तुकामो महाराज सात्यकिः सत्यविक्रमः |
गदां च प्राहिणोत्ताभ्यां वासुदेवस्य पश्यतः || १७-३० ||

जरासंधस्य पुरतस्तत्समीपं च जग्मतुः || १७-३१ ||

एकलव्योऽस्य वार्ष्णेयं शरैर्विव्याध सप्तभिः |
तौ तु राजन्महावीरौ परस्प्रवधैषिणौ |
लोकेषु प्रवरौ वीरौ धन्विनां प्रवरौ रणे || १७-३२ ||

परस्परं धनुश्छित्वा ध्वजं चैव परस्परम् |
तावुभावुभयो राजन्रथौ जघ्नतुराशुगैः || १७-३३ ||

ध्वजौ च चिच्छिदुर्वीरौ सारथी च महाबलौ || १७-३४ ||

तौ तु भूमिगतौ भूत्वा गदामादाय सत्वरौ |
परस्परं समाहत्य गदया तौ महारणे |
सिंहनादं महायुद्धे चक्रतुर्युद्धलालसौ || १७-३५ ||

प्रद्युम्नोऽथ गदापाणिरेकलव्यं जघान ह |
एकलव्यो महाबाहुर्गदयापोथयद्यदुम् |
गदां चिछेद भूयस्तु तस्य राज्ञः स यादवः || १७-३६ ||

उत्सृज्य तां महाराज मुष्टिना यादवेश्वरम् |
जानुभ्यां तलपादैश्च जानुपादैश्च यत्नतः |
स च तादृग्विधं चक्रे युद्धं युद्धविशारदः || १७-३७ ||

पुनश्च मुष्टिना राजन्राजा यदुकुलोद्वहम् |
आहत्य दन्तपातैश्च ददंश नृपसंसदि || १७-३८ ||

ततश्च सैनिकाः सर्वे विस्मयं परमं गताः || १७-३९ ||

बाहुयुद्धं समभवत्तयोर्वीर्यवतोस्तदा |
समन्ताज्जग्मतुस्तौ तु युद्धाय च महारणे || १७-४० ||

ततः क्रुद्धो महाबाहुः प्रद्य्म्नो यादवेश्वरः |
आजघ्ने मुष्टिना तं तु जरासंधस्य पश्यतः || १७-४१ ||

उद्वमञ्शोणितं वक्त्राद्गतायुरिव निःश्वसन् |
गन्तुमैच्छत्तदा युद्धात्प्रद्युम्नेन प्रपीडितः || १७-४२ ||

पलायनकृतोत्साहं जरासंधो महामतिः |
न गन्तव्यं रणे वीर क्षत्रियोऽसीति चाब्रवीत् || १७-४३ ||

February 6, 2009


Source: Southern Recension of Harivamsa
utf-8 devanagari version created using ITRANS on September 6, 2009