harivaMsha, Volume II, Appendix 1, pp.131-132, BORI 1971

itranslated by A. Purushothaman, purushothaman_avaroth @ yahoo.com

१९
जरासंधस्य मथुराया निवर्तनम्
जनमेजय उवाच |
पराजितो जरासंधः कृष्णेन द्विजसत्तम |
सबलः सानुगश्चैव किं मत्वा स्वगृहं गतः || १९ -१ ||

कष्टमेतज्जरासंधः कृतवान्बलसम्मितः |
पलायनं द्विजश्रेष्ठ तयोर्यादवसिंहयोः || १९-२ ||

पुरतः कृतवान्ब्रह्मन्न युक्तं प्रतिभाति मे |
जरासंधोऽपि राजेन्द्रः सर्वेषामग्रणीः स्थितः || १९-३ ||

लज्जाकरमिदं मन्ये तस्य राज्ञो द्विजोत्तम |
पृष्ठतश्च समागम्य पुरस्तात्पश्यतोर्ययौ || १९-४ ||

किमुत्तरं ततो राजा जरासंधः प्रतापवान् |
अकरोद्यदुसिंहस्य माधवस्य द्विजोत्तम |
एतदाचक्ष्व मे ब्रह्मन्विस्तरेण तपोधनः || १९-५ ||

वैशंपायन उवाच |
दग्ध्वा प्रयातो गोमन्ताद्राजा स मगधेश्वरः |
व्रीळयावनतो भूत्वा स्वपुरिं प्रविवेश ह || १९-६ ||

प्रविश्य स्वपुरम् सोऽथ पादस्पृष्ट इवोरगः |
न शर्म लभते रात्रौ न दिवा शोककर्शितः || १९-७ ||

ततः कदाचिद्राजा तु दुखशोकसमन्वितः |
नृपान्सर्वान्समाहूय वचनं चेदमब्रवीत् || १९-८ ||

मन्त्रयामो नृपश्रेष्ठा महद्कार्यमुपस्थितम् |
पराजितोऽस्मि राजेन्द्रा गोपाभ्यां राजसंसदि || १९-९ ||

स सर्वैः पार्थिवैः सार्धं मन्त्रयामास मन्त्रवित् |
अहो धिक्पौरुषं मन्ये यदस्मान्प्रति पार्थिवाः || १९-१० ||

ये नृपा बलकृष्णाभ्यां निर्जिताः सबलानुगाः |
निरोत्स्यामः पुरिं रम्यां मधुरां यादवैर्वृतां || १९-११ ||

भगवन्तः पुरीं तत्र मधुरां चतुरङ्गिणः |
बलेन महता युक्ता हन्तुं तौ गोपकिल्बिषौ || १९-१२ ||

अन्यथा ह्ययशोऽस्माकं यावल्लोको वपुष्मतां |
प्रतिज्ञा च ममाप्येषा श्रूयतां पार्थिवोत्तमाः || १९-१३ ||

यौ तौ गोपकवीरो हि तौ हत्वा तु स्वकं पुरम् |
यास्यामि सत्यमेतद्धि बलैर्बहुभिरन्वितः || १९-१४ ||

बलानि बहुरूपाणि मम सन्ति नृपोत्तमाः |
निःसाधनौ यादवकौ निष्कोशा दुर्बला हि ते || १९-१५ ||

अथ साध्या पुरी सर्वा नात्र कार्या विचारणा |
ततो यूयं स्थिरां कृत्वा बुद्धिं युद्धाय पार्थिवाः |
प्रयान्तु सर्वे राजानः कम्पयन्तो वसुंधराम् || १९-१६ ||

सर्वतः परिरोद्धव्या पुरी यादवपालिता |
निर्मूला चैव सा कार्या भवद्भिः ख्यातकीर्तिभिः || १९-१७ ||

February 8, 2009


Source: Southern Recension of Harivamsa
utf-8 devanagari version created using ITRANS on September 6, 2009