harivaMsha, Volume II, Appendix 1, pp.177-182, BORI 1971

itranslated by A. Purushothaman, purushothaman_avaroth @ yahoo.com

२१
रुक्मिणीस्वयंवरे कृष्णस्यागमनम्
यथार्हं च यथायोगं प्रश्रयं प्रददौ नृपः || २१-१ ||

विवाहं घोषयामास शिशुपालस्य मागधः |
सर्वमन्तःपुरं चैव विवाहे सोत्सुकं किल || २१ -२ ||

श्वोभूते तु विवाहः स्याच्चैद्यस्येति च भूमिपाः |
संनद्धाः समपद्यन्त विभवैः स्वैर्यथातथम् || २१-३ ||

शिशुपालोऽपि राजा तु वरवेषेण संयुतः |
कुमारैरात्मतुल्यैश्च नियमस्थोऽभवत्तदा || २१-४ ||

वैशंपायन उवाच |
एतस्मिन्नेव काले तु नारदो मुनिसत्तमः |
पृथिव्यां पर्यटन्नेको वीणासक्तकरस्तदा || २१-५ ||

द्वारवत्यां ततो विष्णुं निवसन्तं यदूत्तमम् |
सभाजय्ञ्जगन्नाथं प्राप्तो द्वारवतीं किल |
प्रविश्य च पुरिईं रम्यां केशवेनाभिपूजितः || २१-६ ||

तस्यामेव सभायां तु यदुभिर्वृष्ण्भिः सह |
विहरन्तं जगन्नाथं ददर्श यदुनन्दनम् || २१-७ ||

तदभ्याशे स्थितं राममुग्रसेनं च सात्यकीम् |
अन्यानपि यदून्सर्वान्ददर्श मुदितान्महान् || २१-८ ||

तं दृष्त्वा यादवाः सर्वे प्रत्युज्जग्मुः ससंभ्रमम् || २१-९ ||

भगवानपि गोविन्दो रामेण सह केशवः |
उपतस्थे यथायोगमर्घमादाय चासनम् |
इदमर्घ्यमिदं पाद्यमित्यूचे तं मुनीश्वरम् || २१-१० ||

तच्च सर्वं यथाप्राप्तमुपयुज्य मुनीश्वरः |
आसने च समास्थाय न्यषीदन्मुदितस्तदा || २१-११ ||

आसनस्थं मुनिश्रेष्टं यादवाः सर्व एव ते |
आसनानि यथायोगं प्राप्नुवन्स्वानि सर्वतः || २१-१२ ||

केशवोऽपि च धर्मात्मा रामेण सह संगतः |
निषसादासने शुभ्रे वृष्णीनामग्रणीर्हरिः || २१-१३ ||

उवाच च मुनिश्रेष्टं वीणासक्तमसङ्गमम् || २१-१४ ||

कुशलं सर्वकार्येषु वद किं मुनिसत्तम |
अपि ते कुशलं विप्र तपसो मुनिसत्तम || २१-१५ ||

कुशलं तव वीणाया वद विप्र यथातथम् |
अथ वा कुशलं नाम युष्माकं नियतात्मनाम् |
दिष्ट्या दृष्टोऽसि संप्राप्तः पावयानश्च नो विभो || २१-१७ ||

प्रीता वयं मुनिश्रेष्ठ पूताश्चैव त्वदागमात् |
अद्येयं यादवकुलं लोके ख्यातिं प्रयास्यति |
त्वादृशां पुण्यकीर्तीनां संयोगाद्वद सांप्रतम् || २१-१८ ||

आद्यो हि मुनिमुख्यानां भवाँल्लोके प्रथिष्यति |
धन्याः खलु वयं विप्र यतो दृष्टास्त्वया विभो |
एवमादि जगन्नाथ कुशलं पृष्टवान्मुनीम् || २१-१९ ||

तच्छ्रुत्वा कुशलं पृष्टं विष्णुना प्रभविष्णुना |
मुनिः प्रीतमना भूत्वा प्रोवाच यदुसंसदि || २१-२० ||

रामेण संगतं कृष्णमूर्ध्वबाहुमवस्थितम् |
सर्वांस्तथा यदून्विप्रः समाभाष्य वचस्तदा || २१-२१ ||

किमयं कुशलप्रश्नः पृष्टः कृष्ण मयि प्रभो |
न युक्तं प्रतिभात्येतद्देवदेव जगत्पते || २१-२२ ||

यतस्त्वं सर्वभूतानामादिः कुशलदस्तदा |
त्वदिच्छया जगत्सर्वं कुशले विनियुज्यते || २१-२३ ||

वयं तु देवदेवेश नित्यं कुशलिनो हरे |
तथा हि मूलबृत्या वै विष्णो तव युगे युगे || २१-२४ ||

इदं तु चित्रं देवेश यदुक्तं भवतो हरे |
पावयान इति श्रीमँल्लोकनाथ सुरेश्वर || २१-२५ ||

त्वं हि शुद्धः सदा योगि पूतः किल ममागमात् |
किमन्यद्वद देवेश प्रसादात्तव मानद || २१-२६ ||

प्रसादातिशयादेतद्युक्तं वक्तुं जगत्पते |
इदं निश्चितवानद्य प्रसन्नो मयि मानद || २१-२७ ||

सर्वथा कृतकृत्योऽस्मि दृष्टो येन त्वया विभो |
प्रीतिर्मे ह्यतुला विष्णो तव संदर्शनेन हि || २१-२८ ||

इत्युक्त्वा स जगन्नाथं भूयः स्तोतुं प्रचक्रमे |
पुराणज्ञः सदा विप्रो मुनीनामादिरव्ययः || २१-२९ ||

तत्त्वार्थवित्तदा विष्णोः साक्षाद्वेदार्थतत्त्ववित् |
आदाय निहितां वीणां संस्थाप्य लयमुत्तमम् || २१-३० ||

तन्त्रीं च सुर्दृढां कृत्वा जगौ गेयैर्जगत्पतिम् |
अर्थ्याभिर्वाग्भिरिष्टाभिः सर्वयादवसंसदि || २१-३१ ||

नारद उवाच |
नमः कृष्णाय हरये वेधसे भूतधारिणे |
देवदेव जगन्नाथ नमस्ते चक्रधारिणे || २१-३२ ||

नमस्ते नरसिंहाय दैत्यवक्षःप्रदारिणे |
नमस्ते सकलेषाय निर्गुणाय गुणात्मने || २१-३३ ||

नमो वामनरूपाय मायालोकविहारिणे |
नमस्ते क्रोडरूपाय दंष्त्रया क्षितिधारणे || २१-३४ ||

नमोऽस्वशिरसे तुभ्यं वेदाहरणरूपिणे |
त्रिविक्रम नमस्त्य्भ्यं त्रयीरूप जनार्दन || २१-३५ ||

नम ओम्कारमात्राय त्रयीरूपाय विष्णवे |
निर्मलज्ञानरूपाय विज्ञाननिलयाय च || २१-३६ ||

उद्गीथाय नमस्तुभ्यम् रथंतर नमोऽस्तुते |
यं विदुर्वेदतत्त्वज्ञा ब्रह्माद्याः सनकादयः || २१-३७ ||

विचिन्वन्तः प्रदीपेन विज्ञानाख्येन केशव |
सोऽसि देव जगन्नाथ यो दृष्ठो ब्रह्मवादिभिः || २१-३८ ||

यं प्राप्य न निवर्तन्ते योगिनो यतचेतसः |
सोऽसि देव पुराणात्मंस्तुभ्यम् देव नमो नमः || २१-३९ ||

त्वामाहुः सकला वेदा ब्रह्मेति ज्ञाननिश्चये |
त्वमेवेदं जगत्सर्वं त्वयि सर्वं प्रतिष्ठितम् || २१-४० ||

त्वन्मायापटलच्छन्नाः प्राणिनः सर्व एव हि |
अहंमानकृता भ्रष्टाः पतन्ति नरकेषु च |
ये च त्वां विष्णुरित्याहुस्ते च त्वां यान्ति यत्नतः || २१-४१ ||

ये तु ज्ञानसहा मर्त्या वेदान्तज्ञानबृंहिताः |
ते तु त्वां देवदेवेश प्रविशन्ति पुरातनम् || २१-४२ ||

तवैषा भगवन्माया यामाष्रित्य जगन्मयीम् |
प्राणिनो निःश्वसन्ति स्म दुःसहा सा हि नित्यशः |
विहारः सर्व एवैष प्राणिनामुदयाय हि || २१-४३ ||

पूर्वमासीज्जगन्नाथ वाराह इति सम्ज्ञितः |
अदधा भूतधात्रीं त्वं प्राणिनां च हिताय हि |
पुनरश्वशिरा भूत्वा वेदानाहृत्य तिष्ठसि || २१-४४ ||

आसीर्वामनरूपस्त्वमबध्ना बलिमध्वरे |
आहृत्य राज्यम् तस्मात्त्वमिन्द्राय प्राहिणोर्विभो || २१-४५ ||

आभूस्त्वम् नारसिंहश्च हतवान्दैत्यपुंगवम् || २१-४६ ||

रघोरथ जगन्नथ वंशे वंशवतां वर |
आसीश्च रामसंज्ञत्वं रावणं हतवान्विभो |
निष्कण्टकमिमं लोकमकरोर्देवसत्तम || २१-४७ ||

अभूश्च जामदग्न्यस्त्वम् गृहीत्वा परशुं प्रभो |
हतवाम्स्त्वम् महावीर्यम् कृतवीर्यसुतं रणे |
निःक्षत्रियमिमम् लोकमददाः काश्यपाय वै || २१-४८ ||

इदानीमपि गोविन्द लोकानां हितकाम्यया |
मानुषं वपुरास्ताय द्वारवत्यां प्रतिष्ठसि || २१-४९ ||

हतवान्पूतनां बाल्ये गोकुले विहरन्प्रभो |
अर्जुनौ हतवान्भूयो बद्धोलूखलसम्पुटः || २१-५० ||

पुनश्च क्रीडता विष्णो त्वयैव निहतो हयः || २१-५१ ||

अदधास्त्वं पुनः शैलं गवां संरक्षणाय हि |
गोवर्धनं महाशैलं सर्वगोपस्य पश्यतः || २१-५२ ||

ननर्त भगवान्भूयो यमुनाया ह्रदे हरे |
अकरोः कालियं विष्णो विमदं यमुनातटे || २१-५३ ||

रङ्गमध्ये हतौ विष्णो त्वया चाणूरमुष्टिकौ |
दुःसहं लोकविद्विष्टं हतवान्कंसभोजसा || २१-५४ ||

उग्रसेनोऽभिषिक्तश्च राज्ये निहतकण्टके |
स इदानीं स्थितो राज्ये त्वामाश्रित्येन्द्रवद्दिवि || २१-५५ ||

किमनेन जगन्नाथ सर्वं त्वद्वशगं जगत् |
सर्वात्मन्सर्वभूतेश सर्वभावन भावन |
नम्स्ते देवदेवेश नमो भूयो नमो नमः || २१-५६ ||

इति स्तुत्वा जगन्नाथमुपारंसीत्स नारदः |
तच्छ्रुत्वा यादवाः सर्वे परं विस्मयमागताः || २१-५७ ||

मनसा तुष्टुवुर्विष्णुं नारदाच्छ्रुतविस्तराः |
धन्या वयं जगन्नाथमाश्रित्य सुखिनस्तथा |
निर्वृता वयमेवेति नारदं च श्शंसिरे || २१-५८ ||

पुनः प्रीतियुताः सर्वे विलोक्य च परस्परम् |
धन्या वयं पुनर्धन्या धन्यानामग्रतः स्थिताः || २१-५९ ||

श्रीभगवानुवाच |
किमर्थमिह सम्प्राप्तो वद नारद सांप्रतम् |
अलमेतैः स्तुतिपदैर्यथार्थैर्वापि नारद || २१-६० ||

त्वदागमनजं विप्र तत्कार्यं वद सांप्रतम् |
कुतूहलं मम विभो वृष्णीनां चैव सर्वशः || २१-६२ ||

नारद उवाच |
श्रूयतां भगवन्विष्णो ममागमनकारणम् || २१-६३ ||

ह्यस्तने देवदेवेशं शूलिनं वृषभद्वजम् |
अर्चयित्वाः हरं शर्वं दक्षीणे सागरे विभुम् || २१-६४ ||

निवृत्तोऽस्मि तमाराध्य दिशं दनदपालिताम् |
त्वां द्रष्टुं देवदेवेश वसन्तं वृष्णिसंसदि || २१-६५ ||

विन्ध्यस्य दक्षीणं पार्श्वं गतवान्भीष्मपालिताम् |
प्रविश्य च पुरीं तां तु विदर्भस्य महीपतेः |
स्थितोऽहं भीष्मकेणात्र पूजितो यादवेश्वर || २१-६६ ||

तत्र दृष्टो हृषीकेश राज्ञां समुदयो महान् || २१-६७ ||

जरासंधं पुरस्कृत्य राजानः सर्व एव हि |
यथासुखं यथायोगं दृष्टाः केशव माचिरम् || २१-६८ ||

शिशुपालो हि नृपतिश्चेदिनामीश्वरश्च सः |
पौण्ड्रको वासुदेवश्च नित्यं त्वं द्वेष्टि यो विभो || २१-६९ ||

दृष्टश्चाथ मया राजा भीष्मको माब्रवीद्वचः |
सिशुपालस्य विप्रर्षे रुक्मिण्या सह संगमः |
भविता श्वः प्रभाते तु तदर्थं राजसंगमः || २१-७० ||

तच्छ्रुत्वा त्वरितं देव प्राप्तस्त्वां वृष्णिपुंगव |
तद्गच्छ वृष्णिभिः सार्धं नगरं तस्य धीमतः || २१-७१ ||

गृहाण रुक्मिणीं कृष्ण जित्वा नृपतिपुंगवान् || २१-७२ ||

शिशुपालोऽथ राजा तु वरवेषेण विष्ठितः || २१-७३ ||

उद्वहेत जगन्नाथ यदि राजा स रुक्मिणीम् |
आकृत्यमयशस्यं च भवतो नात्र संशयः || २१-७४ ||

याचिता सा भवद्भिस्तु न दत्ता भीष्मकेण हि || २१-७५ ||

आरक्षको जरासंधः पौण्ड्रश्च नृपपुंगवः |
एकलव्यो हृषीकेश रुक्मी तस्य तु दास्यति || २१-७६ ||

भवन्तं यः सदा द्वेष्टि न त्वामाह्वयति प्रभो || २१-७७ ||

जरासंधस्तु वृष्णीनां सदा द्वेष्टा न संशयः |
तद्गच्छतु भवाञ्शीघ्रं यानैरश्वैर्गजैरपि || २१-७८ ||

उग्रसेनं पुरस्कृत्य सात्यकीं च महाबलम् |
तमादाय जगन्नाथ गत्वा यास्यसि माचिरम् || २१-७९ ||

सा च दृष्टा हृषीकेश शोकोपहतचेतना |
त्वय्येव मन आधाय सदा त्वां स्मरति प्रभो || २१-८० ||

यदि भर्ता भवेच्चैद्यः स्यान्मृता रुक्मिणी हरे |
उज्जीवय हरे विष्णो रुक्मिणीं रुक्मभूषणाम् || २१-८१ ||

इत्यहं देव संप्राप्तः कृत्यशेषं विचिन्तयां |
न किंचिदपि दुःसाध्यं चक्रपाणे हरे तव || २१-८२ ||

साधयामो वयं देव गच्छेत्युक्त्वा जगाम सः || २१-८३ ||

वैशंपायन उवाच |
इत्युक्त्वा नारदे याते ब्रह्मलोकं सनातनम् |
वासुदेवस्तु धर्मात्मा यदूनामग्रणीर्हरिः || २१-८४ ||

गमनाय मतिं चक्रे रुक्मिण्याहरणे तदा |
उवाच च यदून्सर्वान्सज्जीभवत माचिरम् || २१-८५ ||

अस्मिन्नेव मुहूर्तं तु यास्यामः कुण्डिनं प्रति |
रथमानय मे शीघ्रं सारथे दारुक प्रभो || २१-८६ ||

आरुह्यन्तां रथा अश्वा गजाश्च परिकल्पिताः || २१-८७ ||

अग्रतश्चास्तु नो वीरः सात्यकिः सत्यविक्रमः |
मध्यतो बलभद्रस्तु राजा चैव तु पृष्ठतः || २१-८८ ||

अहं खड्गी गदी चक्री शार्ङ्गी शङ्खी तलत्रवान् |
रथमास्ताय गच्छामि दारुकेण सहायवान् || २१-८९ ||

हत्वा च राजशार्दूलाञ्जरासंधपुरोगमान् |
शिशुपालं च राजानं वरवेषविडम्बिनम् || २१-९० ||

बध्वा वा भीष्मकं संख्ये हत्वा चैव तु रुक्मिणम् |
आनयिष्यामि तां राजन्रुक्मिणीं मत्प्रियां सदा || २१-९१ ||

सज्जीभवन्तु राजानो रथैरश्वैर्गजैस्तथा |
किं विलम्बथ राजानो यास्यामः सर्व एव हि |
इत्युक्त्वा वृष्णयः सर्वे गमनायोपचक्रिरे || २१-९१ ||

कृष्णस्याज्ञां पुरस्कृत्य सर्वे ते यदुपुंगवाः |
रथानारुह्य यातास्ते संनद्धाः शस्त्रपाणयः || २१-९२ ||

सात्यकिस्तु महाराज रथमारुह्य दंशितः |
धन्वी खड्गी रथी बाणी सैन्याग्रे प्रत्यदृश्यत |
बलदेवोऽपि धरात्मा गजमारुह्य दंशितः || २१-९३ ||

सैन्यमध्ये महाराज मृगमध्ये यथा हरिः || २१-९४ ||

भगवानपि गोविन्दो रथं दारुकसंस्कृतम् |
आरुह्य सहसा विष्णुर्दारुकेण समन्वितः |
गन्तुमैच्छज्जगन्नाथो हर्तुं भोजपतेः सुताम् || २१-९५ ||

सव्यमक्ष्णोर्युगं क्षुब्दं रुक्मिणीशिशुपालयोः |
समाश्वस्ता तदा सा तु स च राजा सुदुःखितः || २१-९६ ||

वृष्णयोऽपि च राजेन्द्र वासुदेवपुरोगमाः |
आहत्य दुंदुभीन्सर्वे शङ्खान्दध्मुः पृथक्पृथक् |
क्रमेणैव गतास्ते तु भीष्मकस्य पुरीं प्रति || २१-९७ ||

February 16, 2009


Source: Southern Recension of Harivamsa
utf-8 devanagari version created using ITRANS on September 6, 2009