harivaMsha, Volume II, Appendix 1, pp.184-188, BORI 1971

itranslated by A. Purushothaman, purushothaman_avaroth @ yahoo.com

२२ आ
यादवैर्जरासंधसहायानां पराजयः
वैशंपायन उवाच
बलभद्रहताः शिष्टाः पुरुषास्तत्र रक्षिणः |
न्यवेदयन्त तद्वृत्तं जरासंधाय मानद || २२ आ-१ ||

रुक्मिणे भीष्मकायापि पौण्ड्राय च महात्मने |
दन्तवक्त्राय शूराय चैद्याय च सुमेधसे || २२ आ-२ ||

शिशुपालाय राज्ञे तु वरवेषविडम्बिने |
अन्येभ्यश्चापि राजभ्यः प्रशशंसुर्यथातथम् || २२ आ-३ ||

श्रुत्यैवं तन्नृपबलं विवाहार्थं समागतम् |
क्षुब्धं नरावरानीकं शिरसि प्रहृतम् यथा || २२ आ-४ ||

चचाल राजकः सर्वस्तोत्रार्दित इव द्विपः |
अहो वीर्यमहो धैर्यं कृष्णस्याक्लिष्टकर्मणः || २२आ-५ ||

हता वयं निरानन्दा अवज्ञाताश्च सवशः |
इत्यूचुस्ते नृपतयो मागधप्रमुखास्तदा || २२ आ-६ ||

अतिक्षुभ्दो महाराजो जरासंधो महाबलः |
उवाच राज्ञस्तान्सर्वान्मागधः क्रोधमूर्चितः |
निष्पीड्य चरणौ राजा दन्तान्कटकटापयन् || २२ आ-७ ||

श्रूयतां मम वाक्यानि राजानः सर्व एव हि |
एष गोपकदायादो यत्करोति ममाग्रतः |
तस्याद्य फलभाक्सोऽस्तु यदि जीवामि भूमिपाः || २२ आ-८ ||

एषोऽहं सगणं हत्वा गोपालं नृपसंज्ञितम् |
द्वारकां यादवपुरीं भङ्क्त्वानीय च रुक्मिणीं || २२ आ-९ ||

दास्यामि नृपतिश्रेष्ठाः किं तिष्ठथ विलम्बथ |
संनह्यन्ताम् रथश्रेष्ठा रथ आयातु मे त्वरात् || २२ आ-१० ||

इत्युक्त्वा स जरासंधः सिंहनादमथाकरोत् |
चचाल च बलं सर्वं जरासंधप्रिये स्थितम् || २२ आ-११ ||

पौण्द्रोऽप्यथ महाबाहुर्वासुदेवः प्रतापवान् |
आहत्य तु सभास्तम्भं जरासंधमभाशत || २२ आ-१२ ||

स्थातव्यं भवता राजन्स्थिते मयि नराधिप |
भृत्योऽस्मि तव राजेन्द्र किमेतत्साहसं तव || २२ आ-१३ ||

स्थिते भृत्ये कथं स्वामी कार्यम् कुर्याद्विचक्षणः |
अहमेकः स एवैकः कृष्णो गोपककिल्बिषः || २२ आ-१४ ||

हत्वा तम् गोपकं युद्धे बलभद्रस्य पश्यतः |
अङ्गानि च महाराज चूर्णयित्वा गदाभृतम् |
वृकेभ्यो हि प्रयच्छामि नात्र कार्या विचारणा || २२ आ-१५ ||

अहमेव भविष्यामि वासुदेवो महीतले |
हते तस्मिञ्जरासंध गोपके मम नामके || २२ आ-१६ ||

इत्युक्त्वा धनुराधाय जगर्ज नृपसंसदि || २२ आ-१७ ||

चैद्योऽप्यथ महाराज सर्वक्षेत्रस्य पश्यतः |
वरवेषप्रतिच्छन्नो लज्जया च समन्वितः |
आदाय परिघम् घोरमिदमाह नृपोत्तमान् || २२ आ-१८ ||

अनेनैव तु राजानो यादवान्सबलान्युधि |
हत्वा तु यमराजाय दास्यामि नृपपुंगवाः |
तिष्ठध्वमिह राजानो ममैवायम् पराभवह् || २२ आ-१९ ||

नैतद्युक्तम् नृपश्रेष्ठाः परदारावमर्शनम् |
जातानां क्षत्रियकुले नृपाणां नृपपुंगवाः || २२ आ-२० ||

तत्तु युक्तम् यदुकुले क्षत्रिया न हि ते विभो |
विशेषतोऽथ गोपाले बल्लवेषु विवर्धिते || २२ आ-२१ ||

गवां वृत्तिं तु गोपाला वर्तयन्ति सदा तथा |
कृष्णोऽपि गोकुले वृद्धो गोपैः सहचरह् किल || २२ आ-२२ ||

परदाराभियुक्तो हि केशवः सततं विभो |
सर्वथा तं दुरात्मनं हनिष्ये सगणं रणे |
तां चानयामि राजानस्तिष्ठध्वमिह भूमिपाः || २२ आ-२३ ||

क्व नु ते बान्धवास्तेषाम् यानाश्रित्य तु यादवाः |
अवज्ञां कृतवन्तो नो युष्माभिरिह चिन्त्यतां || २२ आ-२४ ||

इत्युक्त्वाथ स चैद्यस्तु युद्धाय समुपस्थितः |
ते च सर्वे नृपतयः क्रुद्धाः युद्धाय दंशिताः |
स्वारोपितधनुष्मन्तः साङ्गुलित्राः सचामराः || २२ आ-२५ ||

जरासंधोऽथ नृपती रथमारुह्य दंशितः |
युद्धाय वै महाराज मनो धध्ने महीपतिः || २२ आ-२६ ||

पौण्द्रोऽप्यथ महाराज वासुदेवो महाबलः |
रथमारुह्य सहसा युद्धायैव मनो दधे || २२ आ-२७ ||

दन्तवक्त्रो जरासंधः शिशुपालश्च वीर्यवान् |
संनद्धा निर्ययुः क्रुद्धा जिघांसन्तो जनार्दनम् || २२ आ-२८ ||

अङ्गवङ्गकलिङ्गैशैः सार्धं पौण्ड्रेण वीर्यवान् |
निर्ययौ चेदिराजश्च भ्रातृभिः सह बन्धुभिः || २२ आ-२९ ||

क्व वासुदेवः क्व च गोपकस्तथा
कुतो नु राजा यदुवम्शजन्मनाम् |
कुतो नु रामो मदमत्तगर्वितः
कुतो नु वीरो युधि सात्यकिः किल || २२ आ-३० ||

इति ब्रुवन्तो नृपसत्तमास्तदा
रणाय युक्ताः सबलाः समागधाः |
शरैश्च खड्गैर्युधि पातयन्तो
महारथा निर्ययुरुग्रवीर्याः || २२ आ-३१ ||

वैशंपायन उवाच
अथ सैन्ये महाराज मागधस्य महात्मनः |
शङ्खदुंदुभयश्चैव सस्वनुर्युद्धशम्सिनः |
माधवोऽपि महाराज शङ्खं दध्मौ प्ऱीथक्तदा || २२ आ-३२ ||

भेरीणां च मृदङ्गानां झर्झरीणां च सर्वशः |
नादाः समभवंस्तत्र यदूनां सैन्यसंचये || २२ आ-३३ ||

ततो युद्धं समभवत्सेनयोरुभयोस्तदा |
जरासंधप्रमुखतो वृष्णयः प्रस्थितास्तदा || २२ आ-३४ ||

तान्प्रत्यगृह्नात्संरब्धान्वृष्णिवीरान्महारथान् |
जरासंधो महाराजः ससैन्यः सबलानुगः || २२ आ-३५ ||

तं प्रत्यगृह्णन्संरब्धा वृष्णिवीरा महाबलाः |
संकर्षनम् पुरस्कृत्य वासवं त्वमरा इव || २२ आ-३६ ||

आपतन्तं हि वेगेन जरासंधं महाबलम् |
षड्भिर्विव्याध नाराचैर्युयुधानो महामृधे || २२ आ-३७ ||

अक्रूरो दन्तवक्त्रं तु विव्याध नवभिः शरैः |
तम् प्रत्यविध्यत्कारूशो बाणैर्दशभिराशुगैः || २२ आ-३८ ||

विपृथुः शिशुपालं तु शरिर्विव्याध सप्तभिः |
अष्टभिः प्रत्यविध्यत्तं शिशुपालः प्रतापवान् || २२ आ-३९ ||

गवेषणोऽपि चैद्यं तु षड्भिर्विव्याध मार्गणैः |
अनिर्दान्तस्तथाष्टाभिर्भृहद्दुर्गस्तु पञ्चभिः || २२ आ-४० ||

प्रतिविव्याध तांश्चैद्यः पञ्चभिः पञ्चभिः शरैः |
जघान चाश्वांश्चतुरश्चतुर्भिर्विपृथोः शरैः |
बृहद्दुर्गस्य भल्लेन शिरश्चिछेद चारिहा |
विपृथोः सारथिं प्राहिणोद्यमसादनम् || २२ आ-४१ ||

हताश्वं तु रथं त्य्क्त्वा विपृथुः सुमहाबलः |
आरुरोह रथं तूर्णं बृहद्दुर्गस्य वीर्यवान् |
आरुह्य जवनानश्वान्नियन्तुमुपचक्रमे || २२ आ-४२ ||

ते क्रुद्धाः शरवर्षेण सुनीथं समवाकिरन् |
नृत्यन्तं रथमार्गेषु चापहस्तमभीतवत् || २२ आ-४३ ||

शक्रदेवो दन्तवक्त्रम् बिभेदोरसि कर्णिना |
पटुशः पञ्चभिश्चापि विव्याध युधि मार्गणैः || २२ आ-४४ ||

ताभ्यां स विद्धो दशभिर्बाणैर्मर्मातिगैः शितैः |
ततो बली शक्रदेवं बिभेद दशभिः क्रुधाः || २२ आ-४५ ||

पञ्चभिश्चापि विव्याध सोऽविदूराद्विदूरथम् || २२ आ-४६ ||

विदूरथोऽपि तं षड्भिर्विव्याधाजौ शितैः शरैः || २२ आ-४७ ||

त्रींशता प्रत्यविध्यत्तं बली बाणैर्महारथम् |
कृतवर्मा बिभेदाशु राजपुत्रं त्रिभिः शरैः || २२ आ-४८ ||

न्यहनत्सारथीं चास्य ध्वजं चिछेद सूच्छ्रितम् |
प्रतिविव्याध तं क्रुद्धः पौण्ड्रः षड्भिः शिलीमुखैः || २२ आ-४९ ||

धनुश्चास्य प्रतिच्छेद भल्लेन नतपर्वणा |
निकृत्तशत्रुः कालिङ्गं बिभेदाङ्गम् च मार्गणैः || २२ आ-५० ||

तोमरेणांसदेशे तं बिभेद च कलिङ्गजः |
गजेनासाद्य कह्वस्तु गजमङ्गस्य वीर्यवान् || २२ आ-५१ ||

तोमरेण जघानाशु बिभेदाङ्गं च वीर्यवान् |
चित्रकश्च श्वफल्कश्च सात्य्किश्च महाबलः |
कालिङ्गस्य रथानीकं नाराचैर्बिभिदुः शितैः || २२ आ-५२ ||

विसृष्टेन हलेनाजौ वङ्गराजस्य वारणम् |
जघान रामः संक्रुद्धो वङ्गराजं स सम्युगे || २२ आ-५३ ||

तं हत्वा गजमारुह्य धनुराधाय वीर्यवान् |
संकर्षणो जघानोग्रैर्नाराचैः काशिकान्बहून् || २२ आ-५४ ||

षड्भिर्मिहत्य कारूषान्महेष्वासांश्च वीर्यवान् |
शतं जघान संरब्धो मागधानां महारथ || २२ आ-५५ ||

निहत्य तान्महाराज जरासंधं ततोऽभ्ययात् || २२ आ-५६ ||

तमापनन्तम् विव्याध नाराचैर्मागधास्त्रिभिः |
तं बिभेदाष्टभिः क्रुद्धो नाराचैर्मुसलायुधः || २२ आ-५६ ||

चिछेद चास्य भल्लेन ध्वजं रुक्मविभूषितम् |
चापं च महदायत्तम् शरैरेव हलायुधः |
रथं चास्य महाराज तिलशश्च समाहनत् || २२ आ-५७ ||

स च्छिन्नधन्वा विरथो गदामादाय मागधः |
विव्याध बलभद्रं तु चिछेद च पुनः पुनः |
रथं च चूर्णयामास गदयास्य स मागधः || २२ आ-५८ ||

पात्यमानो रथात्तस्मादवप्लुत्य हलायुधः |
सात्यकेस्तु रथं प्रायात्सर्वक्षत्रस्य पश्यतः |
सात्यकिस्तु महाराज शरैर्विव्याध मागधम् || २२ आ-५९ ||

बलदेवो महाराज गदां संगृह्य सत्वरम् |
जघान मागधं सम्ख्ये वज्रेणेव गिरिं हरिः || २२ आ-६० ||

तद्युद्धमभवत्तेषां घोरं देवासुरोपमम् |
सृजतां शरवर्षाणि निघ्नतामितरेतरम् || २२ आ-६१ ||

गजैर्गजाश्च संक्रुद्धाः सम्निपेतुः सहस्रशः |
रथा रथैस्तु संरब्धाः सादिभिश्चापि सादिनः || २२ आ-६२ ||

पदातयस्तथा पत्तिञ्शक्तिचर्मासिपणयः |
छिन्दन्तश्चोत्तमाङ्गानि विनेदुर्युधि ते प्र्^इथक् || २२ आ-६३ ||

असीनां पात्यमानानां कवचेषु महास्वनः |
शराणां पततामाजौ पक्षिणामिव शुश्रुवे || २२ आ-६४ ||

भेरीशङ्खमृदङ्गानां वेणूनां च मृधे ध्वनिः |
बभूव घोषः शस्त्राणां ज्याघोषश्च महात्मनाम् || २२ आ-६५ ||

एतस्मिन्नन्तरे वीरो बलभद्रो महायशाः |
जघान गदया वीरं जरासंधं महामृधे |
मूर्छां जगाम राजा तु निपपात च भूतले || २२ आ-६६ ||

सात्यकिर्वङ्गराजम् तु जघान निशितैः शरैः |
तत्सैन्यं विमुखं चासीज्जरासंधे निपातिते || २२ आ-६७ ||

सात्यकिर्बलभद्रश्च जित्वा योधान्सहस्रशः |
शङ्खं दध्मतू राजानौ सर्वेषामग्रतः स्थितौ |
ततश्च विद्रुते सैन्ये जरासंधे पराजिते || २२ आ-६८ ||

तयोः शङ्खस्वनं श्रुत्वाः गच्छन्नेव जनार्दनः |
जितं मगधराजस्य सैन्यं बहुनृपाश्रितम् || २२ आ-६९ ||

इत्येवम् चिन्तयित्वा तु वासुदेवः प्रतापवान् |
पाञ्चजन्यं महाशङ्खं दध्मौ यदुकुलोळ्भवः || २२ आ-७० ||

February 23, 2009


Source: Southern Recension of Harivamsa
utf-8 devanagari version created using ITRANS on September 6, 2009