harivaMsha, Volume II, Appendix 1, pp.199-203, BORI 1971

itranslated by A. Purushothaman, purushothaman_avaroth @ yahoo.com

२५
नरकासुरेण देवानां पराजयः
25a (pp. 199-202)
चतुर्मुखाल्लब्धवरो बबाधे सुरसत्तमान् |
स जातु विस्मयं कुर्वन्दिशां दानवसत्तमः || २५अ-१ ||

अनेकशतसाहस्रैर्दानवैश्च समन्वितः |
देवलोकं जगामाशु कुर्वन्सिंहध्वनीं मुहुः || २५अ-२ ||

इन्द्रस्य सदनं गत्वा कवाटं घट्टयन्दनुः |
युध्यतामिति होवाच जयो वा प्रतिदीयतां || २५अ-३ ||

तच्छ्रुत्वा देवराजोऽपि देवैः सर्वैः समन्वितः |
ऐरावतं समारुह्य देवसैन्यैश्च पा|इतः || २५अ-४ ||

युद्धाय दानवेन्द्रेण नरकेण महात्मना |
निर्जगाम पुरात्तस्माद्दानवानां समीपतः |
ऐरावतं समास्थाय तस्थोउ तत्र शचीपतिः || २५अ-५ ||

ततो युद्धं समभवद्दानवानां दुरात्मनाम् |
देवैः शक्रसहायैश्च निघ्रतामितरेतरम् || २५अ-६ ||

देवाः शरैः समाजघ्नुर्दानवान्नगसंनिभान् |
दानवाश्च महाराज देवानिन्द्रपुरोगमान् |
निजघ्नुः समरे तत्र खड्गैः प्रासैः परश्वधैः || २५अ-७ ||

सिंहनादं महच्चक्रुर्दैत्या युधि महाब|आः |
देवान्बबाधिरे ते तु प्रत्यक्षं च शचीपतेः || २५अ-८ ||

आर्ता युद्धपरिश्रान्ता देवागच्छन्दिशो दश |
शक्रेण वारिताश्चापि स्थातुं शक्ता न देवताः || २५अ-९ ||

तांस्तु विद्रावितान्दृष्त्वा वृत्रहा बलसूदनः |
स्थातव्यमिति होवाच निर्जरान्स महाप्रभुः || २५अ-१० ||

धनुरादाय विधिवज्जयाघोषं समवासृजत् |
ततः शरसहस्राणि मुमोच युधि वासवः || २५अ-११ ||

लोकपालास्तथा राजन्समाजग्मुः समन्ततः |
यक्षैश्च गुह्यकैश्चैव सह वैश्रवणस्तथा || २५अ-१२ ||

वरुणो यादसां राजा वारुणैश्च समन्विताः |
नागैश्च शतसाहस्रैरनुयातो दिगीश्वरः || २५अ-१३ ||

यमोऽपि राजा राजेन्द्र कालमृत्युसमन्वितः |
ययौ योद्धुं महाराज नरकं दानवोत्तमम् || २५अ-१४ ||

तैः सार्धं देवराजोऽपि युद्धं चक्रे महामतिः |
नरकोऽपि महाराज युद्धं चक्रे सुदारुणम् || २५अ-१५ ||

हयग्रीवो निसुम्भश्च मुरश्च रिपुमर्दनः |
चक्रुर्युद्धं महाघोरं नरकेण सह प्रभो |
लोकपाला महाराज संसक्ता योद्धुमीहते || २५अ-१६ ||

हयग्रीवो महाराज वरुणेन समागतः |
चक्रे युद्धं महाघोरं यथा वृत्रवधे पुरा || २५अ-१७ ||

निसुम्भो दण्डहस्तेन यमेन सह संगतः |
मुरोऽपि राजन् विक्रान्तो राजराजेन संगतः || २५अ-१८ ||

नरकोऽपि महाराज देवराजेन संगतः |
ते च देवा महाराज दानवैः सह संगताः || २५अ-१९ ||

ते देवा दानवाश्चैव परस्परजयैषिणः |
युद्धं चक्रुर्महाघोरं प्रासशक्त्यृष्टितोमरैः || २५अ-२० ||

हयग्रीवं महाराज वरुणो यादसां पतिः |
जघान निशितैर्बाणैर्मर्मभेदिभिराशुगैः || २५अ-२१ ||

वरुणं लोकपालेशं यादवो नगसंनिभः |
परःशतैः शराणां तु विव्याध युधि दानवः || २५अ-२२ ||

शराणां च सहस्राणि तत्र देवपती रणे |
मुमोच युधि पाशेशस्तमस्यन्तं शिताञ्शरान् || २५अ-२३ ||

पुनः क्रुद्धो महाराज दानवो नगसंनिभः |
वरुणस्य महच्चापं मुष्टिदेशे बबञ्ज ह |
विसृज्य सशरं चापम् पाशमादाय पाशभृत् |
समाजग्ने स पाशेन हयग्रीवं महाबलम् || २५अ-२५ ||

तमापतन्तं वेगेन पाशं जग्राह दानवः |
तेनैव तं समाजघ्ने वरुणं यादसां पतिं |
स तु पाशोऽत्र निर्वीर्यः स्वामिनं न बबाध ह || २५अ-२६ ||

ततः क्रुद्धो हयग्रीवो वरुणं यादसां पतिम् |
जघान गदया राजन्मूर्ध्नि देशे महाबलम् || २५अ-२७ ||

स तेनाभिहतो मूर्ध्नि वमञ्शोणितमुल्बणम् |
विसंज्ञोऽथ जगामाशु तस्मात्संग्रामदुस्तरात् |
वारुणैस्तैः समायुक्तोः निर्जितो दानवओत्तमैः || २५अ-२८ ||

निसुम्भः पञ्चविंशत्या यमं जघ्ने महाब|अः |
यमोऽपि दनुरादाय शरेण नतपर्वणा |
जघान दानवं संख्ये पश्यतस्तु शचीपतेः |
निसुम्भो रोषताम्राक्षो धनुश्चिच्छेद तस्य तत् || २५अ-२९ ||

उत्सृज्य धनुरत्नं च दण्डमुद्यम्य दानवम् |
धावति स्म यमो राजन्हन्तुकामो महाबलः || २५अ-३० ||

उत्सृज्य तु महाराज दानवो धनुरुत्तमम् |
तयोस्ताभ्यां महायुद्धमायुधाभ्यां तदाभवत् |
पुरा देवासुरे युद्धे बलिवासवयोरिव || २५अ-३२ ||

दण्डेनाभ्यहनन्मूर्ध्नि निसुम्भस्य दुरात्मनः |
आहतो दण्डधारेण यमेन सुमहात्मना || २५अ-३३ ||

किंचिदायस्तनयनो निसुम्भो दानवोत्तमः |
खड्गेन प्राहरत्तं तु यमं वैवस्वतं युधि || २५अ-३४ ||

संछिन्नवर्मा देवेशो यमो याम्यैः समन्वितः |
विसंज्ञेद्रियभूतात्मा निःश्वसन्प्राणसंशये |
जगामाशु पुरं युद्धाद्भीतो दानवसत्तमात् || २५अ-३५ ||

राजराजस्तथा सार्धं गुह्यकैर्देवसंनिभैः |
यक्षैर्विद्याधरैः सार्धं माणिभद्रपुरोगमैः || २५अ-३६ ||

मुरं तु मौरवैः सार्धं समाजघ्ने परः शतैः |
शराणां शितधाराणां राजराजो महामतिः || २५अ-३७ ||

मुरः सप्ततिसाहस्रैर्मौरवैर्युद्धकोविदैः |
जघान राजराजं तु शरैः सुनिशितैरपि |
विध्वा तु राजराजं तं गुह्यकांश्च समाहनत् || २५अ-३८ ||

खड्गैः पाशैः समाजघ्ने यक्षान्देवरिपुस्तदा |
यक्षाश्च गुह्यकाश्चैव भीता दुद्रुवराहवात् |
परित्यज्यायुधं मुख्यं मानिभद्रपुरोगमाः || २५अ-३९ ||

यक्षसैन्यं पराजित्य मुरो वैश्रवणं तदा |
शरैराशिविषाकारैर्विव्याध युधि दानवः || २५अ-४० ||

स्तनयोर्वक्षसि तथा चक्षुषोर्नेत्रसंपुटे |
यथेष्टं धर्षयामास दानवो युद्धदुर्मदः |
स चाप्यार्तो विषण्णश्च निर्जगाम रणाजिरात् || २५अ-४१ ||

ते च यक्षास्तदा राजन्गुह्यकाश्च समन्ततः |
अलकां च समाजग्मुर्भीता युद्धपराङ्मुखाः || २५अ-४२ ||

यमोऽथ वरुणश्चैव कुबेरश्च महमतिः |
निर्जिता दानवेन्द्रेण स्वं स्वं नगरमाययुः || २५अ-४३ ||

देवाश्च निर्जिताः सर्वे दानवैर्नगसंनिभैः |
दिशो दश द्रुताः सर्वे भीता वृत्तविलोचनाः || २५अ-४४ ||

December 15, 2008


25b (pp. 202-203)
वैशंपायन उवाच
निर्जितं स्वबलं दृष्ट्वा देवराजः शचीपतिः |
आरुह्यैरावतं नागं प्रांशुं शशिनिभं तदा ईई २५ब्-१
माहेन्द्रमथ चापं च सज्यं कृत्वा सुदारुणम् |
चक्रे युद्धं महाघोरं नरकेण दुरात्मना | २५ब्-२
नरकोऽपि महाराज शक्रं दृष्ट्वा शचीपतिं |
ननाद विविधं नादं सिंहो गजपतिं यथा ईई २५ब्-३
आगच्छेति तदोवाच ज्याघोषं च चकार षः |
तयोः समभवद्युद्धं यथा वृत्रवधे पुरा ईई २५ब्-४
आदाय निशितं बाणं नरको दुष्टचेतनः |
आकर्णपूर्णं संधाय जघ्ने वृत्ररिपुं पुनः ईई २५ब्-५
आहतस्तेन देवेन्द्रो विह्वलः समपद्यतः |
सुस्राव रुधिरं शक्रो गतसंज्ञस्तदाभवत् ईई २५ब्-६
समाश्वस्तस्तदा शक्रः शरैर्विव्याध चाष्टभिः |
रथं विव्याध सप्तत्या सारथिं नवभिः शरैः ईई २५ब्-७
सारथिं प्राहिणोत्तस्य यमाय निशितैः शरैः ईई २५ब्-८
जघानाश्वांश्चतुर्भिस्तु बाणैः सुनिशितैरपि |
धनुश्चिच्छेद भल्लेन नरकस्य दुरात्मनः ईई २५ब्-९
स च्छिन्नधन्वा विरथो विबाणो हस्तसारथिः |
आदाय निशितं खड्गमुत्पतात शचीपतिम् |
आरुह्यैरावतं कुंभे देवराजमपोथयत् ईई २५ब्-१०
व्याविध्य तु पुनर्दैत्यो देवराजस्य वक्षसि |
खड्गेन पोथयामास देवगन्धर्वसंसदि ईई २५ब्-११
विसंज्ञो विह्वलश्चैव देवराजः शतक्रतुः |
उत्सृज्यैरावतं नागं गच्छति स्म तदार्तवत् ईई २५ब्-१२
नागं तं पोथयामास कुम्भदेशे स दानवः |
स च नागो महाराज प्राद्रवच्च भयात्तदा ईई २५ब्-१३
जित्वाथ नरको भौमो वृत्रहन्तारमाहवे |
ननाद विविदान्नादान्रोदसी च विनादयन् ईई २५ब्-१४
निर्जित्याखण्डलं शक्रं लोकपालांस्तथैव च |
जयमाघोषयामास नरको दानवोत्तमः ईई २५ब्-१५
अमरावतिं तदा दैत्यः प्रविश्य च महासुरैः |
उर्वशीं च समाहूय वचनं चेदमब्रवीत् ईई २५ब्-१६
भज मामिह वामोरू निर्जितः शक्र आहवे |
अहमिन्द्रो यमो राजा वरुणो यादसां पतिः |
अहमेव सदा भद्रे राजराजोऽस्मि सुप्रभे || २५ब्-१७ ||

उर्वश्युवाच
ऋषयो यदि ते राजन्यक्ष्यन्ति क्रतुभिः सदा |
तदा भजामि दैत्येन्द्र नात्र कार्या विचारणा |
एवमुक्तस्तदा दैत्यो बाढमित्यब्रवीद्वचः ईई २५ब्-१८
स्वर्गश्रेणीर्महाराज प्रमथ्य दितिजैः सह |
स्वर्गद्रुमान्समादाय देवकन्यास्तथापराः ईई २५ब्-१९
अष्टौ राजन्सहस्राणि गृहीत्वा दानवोत्तमः |
जगाम दैत्यराजस्तु यथेष्टं दानवैः सह ईई २५ब्-२०
December 15, 2008


Source: Southern Recension of Harivamsa
Experimental utf-8 devanagari version created using ITRANS on