harivaMsha, Volume II, Appendix 1, pp.205-209, BORI 1971

itranslated by A. Purushothaman, purushothaman_avaroth @ yahoo.com

२७
itranslated by A. Purushothaman, purushothaman_avaroth @ yahoo.com

नरकासुरवधाय ऋषिभिः कृष्णप्रार्थना
27a (pp. 205)
तां सभां विविशुर्हृष्टाः सशिष्या मुनिसत्तमाः |
तान्दृष्त्वा समनुप्राप्तान्केशवः केशिसूदनः || २७अ-१ ||

नमस्क्रृत्य मुनीन्सर्वानासनानीत्यवोचत |
आसनानि समाविश्य मुनयः संशितव्रताः |
अर्घ्यं च तेभ्यः प्रददौ पाद्यमाचमनं तथा || २७अ-२ ||

उत्सृज्य गां जगन्नाथो मधुपर्कं ददौ पुनः |
अन्धका वृष्णयश्चैव प्रणामं चक्रिरे मुनीन् || २७अ-३ ||

तैरप्यनुमताः सर्वे यादवा मुनिसत्तमैः |
स्वं स्वं हि भेजिरे ते तु आसनं लोकविश्रुताः |
केशवोऽपि महाराज स्वं स्थानं समवाप ह || ||

December 18, 2008


27b (pp. 205 - 208)
वैशंपायन उवाच
आसीनेषु जगन्नाथो मुनिवीरेषु तत्र ह |
उवाच वचनं काले सोपस्करमिदं हरिः || २७ब्-१ ||

कुशलं सर्वकार्येषु तपःसु च तपोधनाः |
युष्मदागमनं मह्यं प्रीणाति सततं भृशम् || २७ब्-२ ||

यादवाश्च परां प्रीतिमास्थिता मुनिसत्तमाः |
युष्मदागमनाद्विप्राः किमु वक्तव्यमत्र ह || २७ब्-३ ||

कुलं पूतं सदा विप्रा यस्मिन्विप्राः समागताः |
युष्मदागमनप्रश्नो न युक्तो वक्तुमत्र नः || २७ब्-४ ||

तथापि नो मनांसीह प्रसह्य मुनिसत्तमाः |
कौतूहलं समायान्ति प्रश्नश्रवणसंनिधौ |
तस्माद्विप्रा यथातत्त्वं वक्तव्यं कारणं तदा || २७ब्-५ ||

एवं पृष्टास्तदा विप्राः केशवेन महात्मना |
ऊचुः प्राञ्जल्यः सर्वे केशवं केशिसूदनम् |
शृणु देव जगन्नाथ कारणं कारणत्मक || २७ब्-६ ||

नरको नाम देवेश भौमो दानवसत्तमः |
बाधते नो जगन्नाथ दानवैर्दानवाधमः || २७ब्-७ ||

जघ्नुस्ते दानवा देव हुतं होतव्यमेव च |
अभक्षयन्त ते देव यज्ञभाण्डान्सहस्रशः || २७ब्-८ ||

इदं चोवाच दुष्टात्मा इज्योऽस्मीति च माधव |
बिभिदुस्ते दुरात्मानो दानवा नगयोधिनः || २७ब्-९ ||

कमण्डलूञ्जटाश्चैव उटजानि सहस्रशः |
न क्वचिच्छर्म देवेश लप्स्यामो यदि जीवति || २७ब्-१० ||

तस्मिन्दुष्टे जगन्नाथ धिग्गता निरयं वयम् |
जहि तं देवदेवेश दानवं दुष्टचेतसम् |
रक्ष नः सकलान्हत्वा दानवान्दुष्टपौरुषान् || २७ब्-११ ||

ऋषिपत्नीः समानीय स्वपुरं नीतवान्दनुः |
रक्षा हि त्वयि गोविन्द स्थिता नित्यं जगत्पते || २७ब्-१२ ||

क्षात्रं वृत्तं समास्थाय द्वाअरवत्यां वसन्हरे |
निगृह्य दुष्टान्रक्षस्व साधून्साधुप्रियो ह्यसि |
आर्ता वयं जगन्नाथ हतास्तेन दुरात्मना || २७ब्-१३ ||

इयं च भवते देव नीता ह्यस्माभिरच्युत |
बदरीसंहतिर्देव पूर्वभुक्ता त्वया विभो || २७ब्-१४ ||

इत्युक्त्वा मुनयस्ते तु ददुः सर्वं जगत्पतेः |
आहृताञ्छिष्यवर्गेण भिन्नान्दानवसत्तमैः |
यज्ञभारान्महाराज दर्शयामासुरञ्जसा || २७ब्-१५ ||

दृष्ट्वा श्रुत्वा च देवेशो रोषताम्राकुलेक्षणः |
कष्टं कष्टं महज्जातमृषीणां भावितात्मनाम् |
इति मत्वा जगन्नाथो नोत्तरं प्रत्यपद्यत |
चिन्ताविष्टे जगन्नाथे रक्षमात्मनि चिन्तिते || २७ब्-१६ ||

तुष्टवुः पुण्डऱीकाक्षमृषयो वीतमत्सराः |
अर्थ्याभिर्वाग्भिरिष्टाभिरीश्वरं प्रणतास्तदा || २७ब्-१७ ||

नमः प्रपन्नार्तिहरादिदेव
जगत्पते कारण कारणात्मन् |
स्वभावशुद्धान्तपुरोधसे नमः
प्रसन्नगोविन्दगुणानुरूपिणे || २७ब्-१८ ||

नमो नमो देव सनातनात्मने
नमो नमो देव जनार्दनोऽसि |
नमो नमो माधव भक्तवत्सल
नमो नमो वामन वामनाकृते || २७ब्-१९ ||

नमह् स्वभावप्रभव प्रभो हरे
जयाच्युतानन्त जगन्निवास |
जय प्रपन्नार्तिहरामरेश
जयामरेशेश सनातनोऽसि || २७ब्-२० ||

त्वयि प्रभुद्धे जगदादिदेव
प्रबुद्धमासीत्सकलं सदैवम् |
सुप्तोत्थिते देव जगन्निवास
प्रबोधमायाति कथं नु लोकः || २७ब्-२१ ||

अनन्यतुल्या तव शक्तिरेषा
दुर्बोधरूपा सकलैः सुरैरपि |
अद्यापि तां वेत्तुमनन्यचेता
ब्रह्मा समीष्टे नियतं जनार्दन || २७ब्-२२ ||

कथं वयं वेत्तुमलं जगत्पते
मग्ना हि संसारमहार्णवे हरे |
निरूपयन्तः सततं भवन्तं
ज्ञातुं वयं देव यतामहे गुरो || २७ब्-२३ ||

तथापि सूक्ष्मं सक|एश्वरस्य
जगत्पते ते सततं नियामक |
स्थूलं तु नित्यं जगतां निवास
तमर्चयामो वयमादिदेव || २७ब्-२४ ||

तमेव नित्यं जनकादयस्ते
भजन्ति सन्तो भगवन्यतीन्द्राः |
तमर्चयामः सततं पुरातन
प्रभो प्रपन्नार्तिहरादिदेव || २७ब्-२५ ||

नताः स्म नित्यं जगतां निवास
भवत्पदं यत्परमं सनातनं |
नताः स्म गोविन्द गुणानुरूप
जगत्पते काराण कारणात्मन् || २७ब्-२६ ||

नमस्तुभ्यं नमस्तुभ्यं देव देव हरे हरे |
नमो गोविन्द दुर्ज्ञेय योगिध्येयाङ्घ्रिपङ्कज || २७ब्-२७ ||

यत्पदं परमं नित्यं तव विष्णो हरे परं |
तं नमाम जगन्नाथ यत्तु पश्यन्ति योगिनः |
नमो नमो हरे विष्णो नमो माधव केशव || २७ब्-२८ ||

यत्तु पश्यन्ति सततं योगिनो यतचेतसः |
यत्प्राप्य न निवर्तन्ते तन्नमाम पदं तव || २७ब्-२९ ||

या माया तव गोविन्द दुर्ज्ञेया योगचिन्तकैः |
तां नताः स्म जगन्नाथ यामाश्रित्य स्थितिं स्थिताः |
या रक्षति जगद्विष्णो तां नमाम हरे सदा || २७ब्-३० ||

ऋग्यजुश्च तथा साम यं स्तौति सततं हरे |
द्वाभ्यां द्वाभ्यां त्रिभिश्चैव पञ्चभिश्च जनार्दन || २७ब्-३१ ||

पुनश्चैव जगन्नाथ द्वाभ्यां स्तौति जगत्पते |
तं त्वां नताः स्म देवेश ऋग्यौजुःसामरूपिणम् || २७ब्-३२ ||

अकारोऽसि जगन्नाथ तथैवोकारसंज्ञितः |
मकारोऽसि तथा विष्णो नमस्ते प्रणवात्मक || २७ब्-३३ ||

उद्गीथाय नमो नित्यं नमो होत्रे जनार्दन |
अध्वर्यवे नम्स्तुभ्यं यष्टृरूपाय ते नमः || २७ब्-३४ ||

चातुर्होत्र नमस्तुभ्यं चातुर्वर्ण्यविभावन |
जगत्सर्वं त्वमेवासि जगच्च त्वयि तिष्ठति || २७ब्-३५ ||

संहर्ता चासि जगतां तथा पाता जगत्पते |
स्रष्टासि च तथा देव स्थितौ स्थितिमतां वर || २७ब्-३६ ||

नमः सर्वात्मने तुभ्यं सर्वभूतहृदिस्थित |
सर्वात्मन्सर्वकर्तासि सर्वभावनभावन || २७ब्-३७ ||

नमः सर्वात्मने तुभ्यं भूयो भूयो नमो नमः |
एवं स्तुत्वा जगन्नाथं प्रणामं चक्रिरे हरेः || २७ब्-३८ ||

ततश्च वृष्णयः सर्वे शिनिवीरपुरोगमाः |
उथाय चासनात्सर्वे प्रणामं चक्रिरे हरेः || २७ब्-३९ ||

सर्वे ते यादवास्तत्र प्रसन्नमनसोऽभवन् |
सोऽयमेष जगन्नाथः पाति नोऽस्मिन्वसन्सदा |
आश्रित्यैनं सुखं सर्वे वत्स्यामो यादवीं पुरीम् || २७ब्-४० ||

इति मत्वा तदा सर्वे यादवाः कृष्णमव्ययम् |
ववन्दिरे महाभागाः स्तुतं मुनिभिरव्ययम् || २७ब्-४१ ||

December 20, 2008


27c (pp. 208 - 209)
वैशंपायन उवाच
एवं स्तुतो जगन्नाथो मुनिभिः पुण्यकीर्तिभिः |
परिबृंहितमात्मानं मेने यादवसत्तमः || २७च्-१ ||

अन्तः प्रीतियुतश्चासीत्प्रकृतिस्थोऽपि केशवः |
प्रतिज्ञामकरोत्तेभ्यो मुनिभ्यो यदुसंसदि || २७च्-२ ||

एषोऽस्मि सगणं हत्वा नरकं दुष्टपूरुषम् |
निष्कण्टकमिमं लोकं करिष्यामि मुनीश्वराः २७च्-३
स्थावरं जङ्गमं चैव सुखं स्वप्स्यति माचिरम् |
चक्रेण निशितेनैव शिरश्छेत्स्यामि दानवम् || २७च्-४ ||

मुरं च दानवं विप्रा हयग्रीवं च दानवम् |
सर्वानेतान्हनिष्यामि गच्छध्वं विगतज्वराः |
आरभ्यन्तां क्रियाः सर्वाः किं विलम्बथ माचिरम् || २७च्-५ ||

प्रतिज्ञाते जगन्नाथे विनेदुर्यादवास्तदा |
मुनयश्च तदा देवे प्रतिज्ञाते तु केशवे |
आशीर्वादांस्तदा विप्रा ददुस्तस्मै महात्मने || २७च्-६ ||

निर्विघ्ना तव देवेश प्रतिज्ञा शत्रुतापन |
भूयाद्भूतहितार्थाय साधयाम इतो वयम् |
स्वस्ति तेऽस्तु गमिष्यामो बदरीं तव शोभनाम् || २७च्-७ ||

इत्युक्त्वा मुनयः सर्वे प्रणिपत्य च केशवम् |
जग्मुः शिष्यैर्महाराज बदरिं तां तपोधनाः || २७च्-८ ||

विस्मयं परमं गत्वा यथायोगमुपासते || २७च्-९ ||

December 20, 2008


Source: Southern Recension of Harivamsa
Experimental utf-8 devanagari version created using ITRANS on