harivaMsha, Volume II, Appendix 1, pp.41-54, BORI 1971
११
itranslated by A. Purushothaman, purushothaman_avaroth @ yahoo.com
गोकुले गोपानां व्याध्युपद्रवः
11a (pp. 41-45)
वैशंपायन उवाच
तौ तु वृन्दावनं प्राप्तौ वसुदेवसुतावुभौ |
चरेतुर्वत्सयूथानि चारयन्तौ स्वरूपिणौ || ११अ-१ ||
प्रविश्य च महारण्यं तदा वृन्दावनं वनम् |
रेमिरे सुचिरं कालं यथेष्टं सहकेशवाः || ११अ-२ ||
गावश्च क्षीरसंपन्ना महिष्यश्च सुनिर्वृताः |
तस्मिन्काले तदा चेरुः सवत्साश्च यथासुखम् || ११अ-३ ||
अथ त्रयोदशे वर्षे वर्धमाने च केशवे |
संप्राप्तो धर्मसमयः कृष्णे वृन्दावने स्थिते || ११अ-४ ||
गते च भास्करे काष्ठामुत्तरां तीक्ष्णदीधितौ |
मरीच्यो दिक्षु सर्वासु प्रसृतास्तीक्ष्णवर्चसः || ११अ-५ ||
लोभयन्त्यो मृगाञ्शश्वत्तिक्ष्णरश्मौ दिवाकरे |
दावदग्धविभिन्नेभ्यः कीचकेभ्यो विनिर्गताः || ११अ-६ ||
सप्तार्चिषो गिरिं दग्धमुदभूवन्नितस्ततः |
रुरवस्तरक्षवश्चैव दग्धदेहा दवानलैः || ११अ-७ ||
कुञ्जरा घर्घररवा धर्मकालविलोलिताः |
धर्मवातसमाक्रान्ता विनेदुर्विस्वरं रवम् || ११अ-८ ||
कृष्णलाः पाकनिर्भिन्ना वनवायुविदारिताः |
पेतुश्च सर्वतः पृथ्वीं रक्तपाता इवाद्रिषु || ११अ-९ ||
रेणवो बहुला भूमेर्नेत्रमार्गविरोधिनः |
तस्मांसीव हि गोपानां दृष्टिं पिदधिरे मुहुः || ११अ-१० ||
गोपाश्च धर्मसंतप्ताः मध्यं याते दिवाकरे |
वनेषु द्रुममूलेषु गाश्च संकाल्य तस्थिरे || ११अ-११ ||
गोप्यः कुम्भीः समादाय नीरैः पूर्णाः समन्ततः |
उष्णरश्मिकरैस्तप्ताश्छायामाश्रित्य तस्थिरे || ११अ-१२ ||
वस्त्रैर्जलार्द्रैः सततं वाहयन्त्यः कुचान्पृथून् |
जलबिन्धून्दृतिगताञ्शीतलानमलान्मुहुः || ११अ-१३ ||
आदाय पथि गोपाला आस्यशोषं निरासिरे |
मृणालैर्देहजं रूक्षं नीडस्थाश्च विहंगमाः || ११अ-१४ ||
अत्युष्णघर्घररवाः शुष्कपर्णनिवासिनः |
विनेदुर्भृशसंतप्ता दावरूक्षैः समाहताः || ११अ-१५ ||
पुष्पैर्वैभीतकैर्भिन्ना जनप्राणा हरैः समम् |
किंपाकफलगन्धाढ्याः कालयन्तो मृगद्विजान् || ११अ-१६ ||
इतः क्वचित्ततः सद्यस्ततोऽन्यत्र ततः पुनः |
वाता ववुर्महावेगाः कालयन्तो रजो दिशः || ११अ-१७ ||
आग्नेयं तेज एवैतत्प्रसृतं माधवस्य ह |
वर्धमाने महाधर्मे जगतः शोषहेतुके || ११अ-१८ ||
केशवे जगतां पाले स्थिते वृन्दावने वने |
व्याधिर्गोपकुले तत्र बभूव तुमुलो महान् || ११अ-१९ ||
व्याधयो विविधाकारा गोषु गोपालकेषु च |
प्रादुर्बभूवुर्बहवो धर्मकाल उपस्थिते || ११अ-२० ||
महिषाश्च भृशं तप्ता ज्वरातिसारमूर्चिताः |
सहसा प्रपतन्ति स्म वज्रभिन्ना नगा इव || ११अ-२१ ||
स्तब्धलोमाक्षिपक्ष्माणो लम्बकर्णशिरोधराः |
स्रवदक्षिमुखघ्राणा दन्तैः कटकटायितैः || ११अ-२२ ||
अपूर्ववर्णाः पशवो नेच्छन्तो यवसं तृणम् |
अभीक्ष्णं चपलाङ्गाश्च परिनिम्नाक्षिमण्डलाः || ११अ-२३ ||
क्रन्दमानाश्च तिष्ठन्ति शयिताश्च सहस्रशः |
भूमौ परिपतन्ति स्म स्रंसयन्तः शकृन्त्यपि || ११अ-२४ ||
एवंविधैरहोभिश्च पञ्चषैश्च दिनैरभूत् |
महिषणां गवां चापि दारुणं मृत्युसंशयम् || ११अ-२५ ||
अपूर्वमेवं सहसा गोपालानामभूद्भयम् |
पालयाने तु गोविन्दे गोपालैः सह गोगणम् || ११अ-२६ ||
सवत्सानां गवामेवं व्याधयश्च पृथग्विधाः |
अप्रज्ञाताः प्रदृश्यन्ते वृद्धगोपालपण्दितैः || ११अ-२७ ||
मन्त्रैश्च भेषजैर्मुख्यैर्भिषजः शास्त्रयुक्तिभिः |
यतमानाश्च गोपाला न शेकुस्तान्निवारितुम् || ११अ-२८ ||
कृत्वा चाङ्गेषु दहनं सिरावेधांश्च तद्विदः |
कुर्वाणा बहुधा यन्त्रं न व्याधीन्प्रतिचक्रिरे || ११अ-२९ ||
ततो विषण्णमभवद्गोपालानां तदा कुलम् |
सवृद्धबालं सस्त्रीकं व्याक्रोशव्याधिना स्वयम् || ११अ-३० ||
भृशमार्तमभूत्रस्तं संनिपातज्वरार्दितम् |
सर्वमर्मातिगतया महावेदनया युतम् || ११अ-३१ ||
पीडिताः पिटकाभिश्च ग्रथिताः सर्वतस्तनुम् |
सिरास्थिमांसं निर्भिद्य प्रादुर्भूतैः सवेदनैः || ११अ-३२ ||
निष्क्रियाभिस्तथान्याभिर्व्याधिभिर्भृशपीडिताः |
विपन्ना वृद्धगोपालाः सगोयूथास्त्ववापतन् || ११अ-३३ ||
गोपालाश्च तथान्ये च ये च तद्वनवासिनः |
सर्वे परिपतन्ति स्म पिबन्तो यमुनाजलम् || ११अ-३४ ||
यमुनातीरजेनाशु स्पृष्टा सर्वे च वायुना |
व्याधिरूपैर्बहुविधैर्भृशमार्तास्तदाभवन् || ११अ-३५ ||
सरीसृपाश्च व्याला ये मृगाः सर्वे च पक्षिणः |
प्राणिनो विविधाकारा यामुनं वनमाश्रिताः || ११अ-३६ ||
ते सर्वे मृतसंकल्पा मृताश्चैव सहस्रशः |
गोपालाः सह गोभिश्च परिपेतुर्दिशो दश || ११अ-३७ ||
सर्वे संघूर्णनयना निश्चेस्ष्टा मूर्छिता भृशम् |
पेतुर्वनचरा राजञ्जीवन्तोऽपि मृता यथा || ११अ-३८ ||
अपानमूत्रद्वारेभ्यो मुखनासाक्षिकर्णतः |
शोणितं लोमकूपेभ्यो जन्तवः ससृजुर्बहु || ११अ-३९ ||
सर्वेषां प्राणिनामन्तः समन्तात्सव्रणैर्मुखैः |
अशक्यमम्बु वाहर्तुं किं पुनर्भोजनादिकम् || ११अ-४० ||
दन्ताश्च विप्रशीर्यन्ते केषांचिन्न च भाषणम् |
रसनोद्गीर्यते कण्टैः समन्तात्सव्रणैरपि || ११अ-४१ ||
दुर्गन्धं दुःसहं तत्र प्रादुरासीद्विशेषतः |
आक्रोशबहुलं चासीत्सर्वतो यमुनातटे |
नरगोमृगयूथानामार्तानां सर्वतोदिशम् || ११अ-४३ ||
नाहारं भुञ्चते गावो नौषधं न च खादनम् |
श्वासमात्रं व्रजं सर्वं शयितं गोगणैः सह || ११अ-४४ ||
एवम् गते व्रजे तस्मिञ्श्वासमात्रे स्थिते नृप |
अथ कृष्णश्च रामश्च कैश्चिद्गोपैः सहापरैः |
पृथगन्यत्र संवासमादावेवाभ्यरोचताम् || ११अ-४५ ||
बालोऽपि बुद्ध्या संचिन्त्य कृष्णः कमललोचनः |
इदमत्रेतिकर्तव्यमिति निश्चितवान्प्रभुः || ११अ-४६ ||
क्रोशमात्रमतिक्रम्य पर्वतेनान्तरीकृतः |
परः शतैः स्वसखिभिर्नीरोगः समपद्यत || ११अ-४७ ||
मृच्छिलाशर्करावृक्षतृणकाष्टलतागुणैः |
भुवः संस्तानमालोक्य खानयामास मेदिनीम् || ११अ-४८ ||
उत्पाध्य सलिलं कृष्णः स्वयूथ्यैः सह गोगणैः |
तज्जलं स पिप्बन्कृष्णो नीरोगः समपद्यत || ११अ-४९ ||
तद्दृष्ट्वान्ये च गोपालाः शक्त्याल्पतरया युताः |
प्रयाणमनुतिष्टन्ति तेषां कृष्णोऽभवद्गतिः || ११अ-५० ||
नन्दगोपो यशोदा च पुत्रौ दृष्त्वा निराकुलौ |
भृशमार्तियुतौ चास्तामन्तः प्रितियुतावपि || ११अ-५१ ||
बन्धुवर्गोऽपि सुमहान्नन्दगोपस्य चाभवत् |
तमवेक्ष्य भृशं तप्तो नाभवत्कृष्णसंनिधौ | ११अ-५२
अनेन बन्धुवर्गेण सह मे गोधनेन च |
मृयेयं चाहमप्यत्रेत्येवं मतिरजायत || ११अ-५३ ||
अथ कृष्णश्च रामश्च ज्वरितौ पितरौ तदा |
श्रुत्वैव परमोद्विग्नौ व्यथितौ किल तौ स्थितौ || ११अ-५४ ||
बन्धुवर्गं च सकलं गोधनं च तथागतम् |
दृश्त्वा परमसंत्रासमागतौ बलकेशवौ || ११अ-५५ ||
December 6, 2008
11b (pp. 46-51)
वैशंपायन उवाच
अथ तस्यामवस्थायं गोपालानां वयोतिगः |
विदेहातागतः कश्चित्तस्मिन्कोलाहले किल || ११ब्-१ ||
प्रोवाचामृतसंकल्पं वाक्यं विद्वान्समागतः || ११ब्-२ ||
वयं पशून्समाश्रित्य जीवामो विगतज्वराः |
पशूनां च पतिर्देवः सर्वथा व्ऱीषभद्वजः || ११ब्-२ ||
तस्यार्चनविधिं शीघ्रं कुरुध्वं गोवृषस्य च |
येन शान्तिमवाप्स्यामो न मन्त्रौषधपौष्टिकैः || ११ब्-३ ||
ब्राह्मणाञ्श्रुतसंपन्नान्समाहूय यथाविधि |
अस्मिन्संनिहिते स्थाने सभ्यगर्चाम शंकरम् || ११ब्-४ ||
इत्युक्ताः कुलवृद्धेन ते गोपाः कृष्णमाश्रिताः |
तथा चक्रुर्द्विजेन्द्रांश्च समाहूयार्चनाविदः || ११ब्-५ ||
उपहारैर्नमस्कारैरर्चनाभिरनेकधा |
सुप्रीतमनसो विप्रास्तथा चक्रुर्यथाक्रमम् || ११ब्-६ ||
हविर्भिः पायसैश्चापि घृतेन पयसाम्बुना |
संतर्पयन्तो विश्वेशं हुत्वा चाग्नौ वृषद्वजम् || ११ब्-७ ||
देवीं स्कन्दगणांश्चैव गोवृषं नन्दिकेस्वरम् |
विनायकं च संपूज्य स्तुतिभिश्चास्तुवन्हरम् || ११ब्-८ ||
मन्त्रैर्माहेस्वरैरेवं शान्तिमङ्गलयुक्तिभिः |
पुष्पैर्गन्धैश्च धूपैश्च दीपैश्चैव समन्ततः |
पृथक्पृथक्समर्चन्ति ब्राह्मणा वेदपारगाः || ११ब्-१० ||
अर्चा मूर्ध्नि कृतास्तिस्रः सप्तराथ्रं च संततम् |
पृथग्गोघृतधारास्तु यथाविद्युपपादिताः || ११ब्-११ ||
त्रिभिर्वेदैस्तथा चक्रुर्महादेवप्रसक्तये || ११ब्-१२ ||
गानैश्च केचिद्गायन्ति शंकरं वृषभद्वजम् |
नृत्यन्ति च विशेषेण रुद्रप्रीत्यर्थमुद्यताः || ११ब्-१३ ||
भ्रूक्षेपैरक्षविक्षेपैर्मुखान्नयनसूचकै |
हस्तविन्यासयोगैश्च पादघातैश्च भागतः || ११ब्-१४ ||
सप्तमेऽहनि मध्याह्ने प्रोद्भूतं महदद्भुतम् || ११ब्-१५ ||
तेषामेको द्विजेन्द्रस्तु वेदवेदाङ्गपारगः |
उन्मत्त इव संजज्ञे साट्टहासः पुनः पुमः || ११ब्-१६ ||
दिव्यं नृत्तं समालेभे दिव्यं गेयं तथैव च |
माहेस्वरेण भूतेन समाविष्टो विमोहितः || ११ब्-१७ ||
विस्मिताः सर्व एवासंस्तस्मिन्सदसि ये स्थिताः |
स च वै दिव्यनृत्तन्ते देवावेशी वचोऽब्रवीत् || ११ब्-१८ ||
अस्मिन्मुहूर्ते कैलासादागतः परमेष्ठिनः |
शासनं समुपादाय मूर्ध्ना सर्वजगत्गुरोः || ११ब्-१९ ||
वर्तमानं पशूनां च गोपालानां च संकटम् |
वने निवसतां ज्ञात्वा प्राणिनां च महद्भयम् || ११ब्-२० ||
युष्मदर्चाविशेषाच्च सौष्ठवाच्चेह कर्मणः |
वचो गोवृषभक्त्या च पशूनां पतिरब्रवीत् || ११ब्-२१ ||
शङ्कुकर्णाशु गत्वा त्वं यमुनातीरवासिनाम् |
आर्तानां ब्रूहि मद्वाक्यं समाविश्य द्विजोत्तमम् || ११ब्-२२ ||
सर्वप्राणिषु सर्वत्र द्वापरान्ते महासुरः |
मनुष्यलोके भोगार्थं दृष्त्वा बन्धूननेकशः || ११ब्-२३ ||
जातः कालः कलिर्नाम विरोचनसुतो बली |
अनुजातो बलेः पूर्वमसुरेन्द्रो महाबलः || ११ब्-२४ ||
विषवृक्षः कपित्थोऽभूत्कालिन्द्या दक्षिणे तटे |
प्रभूतस्कन्दविटपः खगामैरनुपासितः || ११ब्-२५ ||
परिवारास्तमाश्रित्य बहुभृत्यास्तदाश्रयाः |
विष्कण्टकिनो वृक्षा लता व||यश्च जज्ञिरे || ११ब्-२६ ||
तस्य भार्याः सपक्षाश्च सहस्रतनयास्तथा |
गोभूता वत्सभूताश्च चरन्ति यमुनातटे || ११ब्-२७ ||
निर्गोपा वनगावस्ता दर्पयुक्ताः सवत्सकाः |
विषवृक्षस्य च फलमुपयुञ्जन्ति निर्वृताः || ११ब्-२८ ||
स च द्वादसवर्षान्ते वृक्षः पुष्पफलाकुलः |
तदा भवन्ति रोगाश्च तद्गन्धरसमुर्छिताः || ११ब्-२९ ||
स तु पुष्पितमात्रेण भवेत्फलयुतो द्रुमः |
विसृजन्कटुकं गन्धं व्याधीनामाकरं मुहुः || ११ब्-३० ||
पुरा तद्वनमुत्सृज्य जीवन्ति प्राणिनो भयात् |
द्रुमाणां च भवेद्व्याधिर्वृक्षावेशसमुस्थितः || ११ब्-३१ ||
अस्मिन्काले हि गोपालाः प्रायशस्तद्वनं गताः |
गोभिः सह चरन्ति स्म ते वृक्षस्याविदूरतः || ११ब्-३२ ||
पर्यायाद्द्वादशाब्दानामस्मिन्काले क्रमागते |
वृक्षश्च पुष्पफलवान्कपित्थः समजायत |
अत्यासन्नतया कष्टमभूदत्रनिवासिनां || ११ब्-३३ ||
अन्यच्चाह महादेवो नन्दगोपसुतावुभौ |
विषं च विषवृक्षं च शक्तौ शीघ्रमपोहितुम् || ११ब्-३४ ||
इतः परं व्याधयश्च न भवन्तीह पूर्ववत् |
गावो गोपाश्च जीवन्तु प्रसादात्परमेष्ठिनः || ११ब्-३५ ||
अहं तत्र गमिष्यामि यत्रास्ते परमेश्वरः |
अम्बिकाकुचकस्तूरिपङ्कांङ्कितभुजान्तर |
इत्युक्त्वावेशितो विप्रः संज्ञां स्वामाप्तवांस्तदा || ११ब्-३६ ||
अथ सर्वे तु गोपालाः संप्रैक्षन्त परस्परम् |
तेषामिङ्गितमाकारं ज्ञात्वा कृष्णः स्वबान्धवान् |
इदमाह वचो धीमान्मधुरं मधुराकृतिः || ११ब्-३८ ||
शासनाद्देवदेवस्य वयं सर्वे विषद्रुमं |
यास्यामो गोपवृद्धाश्च तिष्ठन्त्वत्र सबालकाः || ११ब्-३९ ||
इत्युक्त्वा सहसा कृष्णः कृत्वा विप्रान्प्रदक्षिणम् |
देवालयं च तद्धीमान्प्रययौ यमुनावनम् || ११ब्-४० ||
संकर्षणेन सहिता युवानो गोपपुंगवाः || ||
सिंहनादं प्रकुर्वन्तः कृष्णस्य पुरतो ययुः || ११ब्-४१ ||
मुक्तरोगा गनपतेः पश्चादागमनाद्धरेः |
पृष्ठतः सर्वगोपाला ब्राह्मणश्च तमन्वयुः || ११ब्-४२ ||
विचिन्वाना यथोद्दिष्टं सर्वत्र यमुनातटे |
आग्नाय तिक्तं रूक्षम् च दुर्गन्धं घ्राणदुःसहम् || ११ब्-४३ ||
तमपश्यन्नदीतीरे प्रभूतं वृक्षमुच्छ्रितम् |
दूरादेवाम्बरतले वनस्योपरि केतुवत् || ११ब्-४४ ||
टक्कैः कुन्तैः कुठारैश्च खनित्रैरपरैर्द्दृधैः |
छित्त्वा ते तद्वनं घोरमतिदुर्वेदमायसैः |
द्रुमवल्लीलतारूपैर्दानवैरभिरक्षितम् || ११ब्-४५ ||
विषवृक्षांश्च तांश्छित्वा तावुभौ रामकेशवौ |
जग्मतुस्तस्य वृक्षस्य समीपं प्राणिविद्विषः || ११ब्-४६ ||
तौ तं ददृशतुर्दैत्यं वृक्षभूतमवस्थितम् |
त्रिंशद्व्यामायतस्कन्धं तदर्धपरिणाहिनम् |
अत्युच्छ्रितं महाशाखं सर्वप्राणिनिराश्रयम् || ११ब्-४७ ||
तौ समीक्ष्याशु गहने सवत्सा मदगर्विताः |
अदृष्टमानुषाः पूर्वं गावस्तस्थुः कुतूहलात् || ११ब्-४८ ||
पक्वैरपक्वैर्बालैश्च सर्वतः संवृतं फलैः || ११ब्-४९ ||
संरब्धौ काष्टपाषाणैः शातयामासतुः फलम् |
उच्छ्रित्य बाहू विपुलौ निर्भुज्य दशनच्छदम् || ११ब्-५० ||
विक्षेपं चक्रतुः खण्डैः काष्ठानाअमश्मनामपि |
फलान्यशातयत्कृष्णो हस्ताभ्यां काष्ठशङ्कुभिः || ११ब्-५१ ||
हस्तग्राह्याननेकांश्च काष्ठान्पाषाणसंचयान् |
प्रददुः सत्वरा गोपास्तयोर्हस्तेषु सर्वतः || ११ब्-५२ ||
उद्यभ्याहत्य तैरेवमूर्ध्ववक्त्रावुभावपि |
फलानि कुम्भमात्राणि पातयांचक्रतुः क्षितौ || ११ब्-५३ ||
तौ बृहद्भिः समाघ्नन्तौ बहुशाखास्वनेकधा |
पात्यमानैः फलैश्चैव चक्रतुस्तुमुलं स्वनम् || ११ब्-५४ ||
गोपाश्च नेदुः संहृष्टा नेदतुस्तौ च सिंहवत् |
फलशातनजश्चासीदेकीभूतो महारवः || ११ब्-५५ ||
ताश्च गावो भृशोद्विग्ना आसुरं भावमाश्रिताः |
दृष्टवन्त्यश्च शृण्वन्त्यः प्रागदृष्टश्रुतं वने || ११ब्-५६ ||
घोरा भयानका गावः सवत्सास्तानभिद्रुताः |
निहन्तुं निश्चिता भूत्वा गोपालानभिसंगताः || ११ब्-५७ ||
दन्तैर्विषाणैः पादैश्च |आङ्गूलैर्मस्तकैः खुरैः |
समाहत्य निजघ्नुस्तान्सकृष्णमुसलायुधान् || ११ब्-५८ ||
हन्यमाना वने गोपाः पसुभिर्भीमविक्रमैः |
अशक्नुवन्तस्ते तत्र विप्रजग्मुर्दिशो दश || ११ब्-५९ ||
हुम्भारवाश्च नादाश्च चेष्टाश्च विविधा गुणाः |
यथा स्युः सौरभेयाणां न सन्त्यासां तथा क्वचित् || ११ब्-६० ||
गवां भावोचितः कृष्णस्तत्सर्वमुपलक्ष्य च |
स्वयं च गोपो मेधावी बालोऽपि निपुणः सदा || ११ब्-६१ ||
विज्ञाय दानवगणं ततो गोरूपधारिणम् |
आकारैरिङ्गितैर्युक्त्या निश्चितः स तु बुद्धिमान् || ११ब्-६२ ||
तस्मिन्मुहूर्ते चत्वारो वत्सभूताः कलेः सुताः |
समाघ्नन्सहसा कृष्णं ललाटैश्चरणैः खुरैः ११ब्-६३
स तीक्ष्णमाहतः कृष्णो वत्सैस्तैर्वीतसंभ्रमः |
हस्ताभ्यामभिजग्राह संहतान्वातरंहसः || ११ब्-६४ ||
तेषां बलेन विज्ञाय तेषु हस्तगतेषु च |
दैत्या निःसंशयमिति हरिर्निश्चितवानयम् || ११ब्-६५ ||
तत्क्षणादविचार्यैव प्रारब्धं कार्यमात्मनः |
एकैकमेषां चिक्षेप पादान्संगृह्य लीलया |
दक्षिणेन करेणैव ग्रुहीत्वा चेतरानपि || ११ब्-६६ ||
एवं वत्सैरभिघ्नन्तं सर्वे वत्सा विस्षद्रुमम् |
कृष्णं दृष्ट्वाभ्यधावन्त विसृज्यान्यान्विमर्दितुम् || ११ब्-६७ ||
तान्सर्वानेकहस्तेन संधार्य स महाद्युतिः |
अपरेणाहनद्वत्सैरुच्छ्रित्य बलवान्द्रुमम् || ११ब्-६८ ||
ततः संभूय ते वत्साः सर्वतश्च समाद्रवन् |
समाहनन्त संरब्धाः पादैर्दन्तैश्च मस्तकैः || ११ब्-६९ ||
तान्हत्वा बलवान्कृष्णः पादजान्वं सकूर्परैः |
विधूयापातयद्भूमौ स्वकार्यमनुतस्थिवान् || ११ब्-७० ||
नृत्यन्निव बभौ कृष्ण कुर्वन्नभिनयक्रियाम् |
शरीरेण समग्रेण कृष्णः कमललोचनः || ११ब्-७१ ||
तेनोत्सृष्टैश्च तैर्वत्सैः सारवद्भिरनेकधा |
बभञ्जुर्वृक्षशाखास्तं हन्यमाना बलीयसा || ११ब्-७२ ||
उग्रमुच्चैस्तरं भूयो वत्सद्रुमसमागमे |
प्रादुरासातिकटुकम् तन्महाभैरवं रवम् || ११ब्-७३ ||
वृक्षशाखाविभिन्नाङ्गाः कालेयास्ते महासुराः |
पेतुः प्रिथिव्यां स्वैर्देहैः शवभूता महासुराः |
फलैश्च सहिताः शाखाः शाखाभिः सहिताः शवाः ११ब्-७४
तत्रासीद्रुदिरक्लिन्ना भूमिः किंचित्क्षणान्तरे || ११ब्-७५ ||
तस्मिन्कोलाहले वृत्ते गावस्तद्वत्समातरः |
अभिपेतुः समुद्विग्नाः सर्वास्ता यत्र ते स्थिताः || ११ब्-७६ ||
ता आपतन्तीरेवादौ बलवान्रोहिणीसुतः |
भर्त्सयन्काष्टधातैश्च भ्रामयन्सर्वतोदिशम् || ११ब्-७७ ||
हन्यमानान्सुतान्दृष्ट्वा प्रागदृष्टश्रुतेन च |
महारवेण सोद्विग्नाः स्वयं चापि भृशाहताः || ११ब्-७८ ||
ताः समुच्छ्रितलाङ्गूलाः स्तब्दकर्णशिरोधराः |
भयाद्ञ्चितलोमानो विविशुः सर्वतो वनम् || ११ब्-७९ ||
असुराः पशवस्तासामन्वयो निष्फलो भुवि |
अध्यापि संचरन्त्येव महारण्ये जनावृते || ११ब्-८० ||
December 7, 2008
11c (pp. 51-54)
वैशंपायन उवाच
अथ दामोदरः शीघ्रं हस्तप्राप्ताङ्गसंहतिम् |
दिक्षु सर्वासु वत्सानां क्षिपन्वृक्षे बभञ्ज ह || ११च्-१ ||
उभाभ्यामपि हस्थाभ्यां युगपच्च पृथक्च सः |
एकग्राहैश्च बहुभिस्तैर्वत्सैर्वृक्षमाहनत् || ११च्-२ ||
क्षिप्यमाणैस्ततो वृक्षो वत्सैर्भग्नोऽथ विष्णुना |
सारवन्तो हता वृक्षा वत्साश्च निहतास्तथा || ११च्-३ ||
अशेषमेवा वत्सानां क्षयं नीत्वा जनार्दनः |
ननाद सिंहवत्कृष्णः संकर्षणसहायवान् || ११च्-४ ||
समासन्न शरीरास्ते शवभूताश्च दानवाः |
सर्वतो विषव्^ऱिक्षस्य शेरते धरणीतले || ११च्-५ ||
दारुणैश्च वपुर्भिस्तैर्भग्नैरङ्गैरनेकधा |
आप्लुता रुधिरौघेण विरेजुर्विस्मयावहाः || ११च्-६ ||
दृष्त्वा तत्कर्म कृष्णस्य विस्मितास्तत्र ये स्तिथाः |
असाध्यं सुमहत्कार्यं कृत्वा कृष्णो व्यवस्तिथः ११च्-७
अथ पूर्वजमामन्त्र्य कृष्णः कमललोचनः |
सेषं वृक्षं समुन्मथ्या गोपालैर्दहत्सह || ११च्-८ ||
विषकण्टकिनो वृक्षास्तत्र ये तान्व्यनीनशत् |
ततो व||यश्च भूयिष्टा ये च गुल्मास्तदाश्रिताः ११च्-९ ||
छित्त्वा संग्रिह्य तान्सर्वान्भग्नो यत्र विषद्रुमः |
तत्र पर्वतवद्राशिं कृत्वाग्निं समुपानयत् || ११च्-१० ||
समूलस्कन्दविटपं विषवृक्षमशेषतः |
अदहत्पतितैः सार्धं फलैः पुष्पैः शवैस्तथा || ११च्-११ ||
अदहत्तद्वनं सर्वं सपर्वतमहाद्रुमम् |
भूयिष्टं ग्रीष्मकाले तु शुष्कपर्णतृणोलपम् || ११च्-१२ ||
भस्मावशेषं संदह्य शान्ते तस्मिन्विभावसौ |
आकाशात्पुष्पवृष्टिश्च पपात धरणितले || ११च्-१३ ||
ववौ वायुः सुखस्पर्शः प्रशान्तमभवद्रजः |
देवदुंदुभयो नेदुर्नीरुजं चाभ्वद्वनम् || ११च्-१४ ||
ततो रामश्च कृष्णश्च पूज्यमानौ मुदा युतौ |
गोपालैर्ब्राह्मणैः सार्धं प्रतियातौ महावनात् || ११च्-१५ ||
समूलघातं संदह्य सिद्धार्थास्तं महाद्रुमम् |
गोपालाः कृतकर्माणश्चक्रुः सिंहध्वनीम् मुहुः || ११च्-१६ ||
प्रविश्य यमुनां गोपा जलक्रीडास्त्वनेकशः |
सकृष्णा गोपमुख्याश्च चक्रुर्नित्यविहारिण || ११च्-१७ ||
जलवाध्यान्ननेकानि वादयन्तः परस्परम् |
चक्रुः शिक्षाविशेषांश्च व्यायामांश्च जलाश्रयान् || ११च्-१८ ||
नृत्यन्तः प्रहरन्तश्च गायन्तो गोपदारकाः |
आलिङ्गन्तः प्रमुदिता लङ्घयन्तः परस्परम् || ११च्-१९ ||
युद्धमार्गं च संव्यूह्य चक्रुर्युद्धक्रमं मुहुः |
जलगूढशरीरास्ते चेरुर्नद्यामधोगताः || ११च्-२० ||
अन्तश्चोपरि तोयस्य रामकृष्णौ मुदा युतौ |
प्रशस्यमानौ गोपालैः स्वामित्वमुपजग्मतुः || ११च्-२१ ||
अथापराह्नसमये विशेषितजलक्रियौ |
समुत्तेरतुरीशौ तौ सयूथाविव यूथपौ || ११च्-२२ ||
नन्दगोपनियोगेन तत्रासीद्पूर्वमेव हि |
परिकल्पितमन्नाद्यं पुत्रयोरुत्सवे सति || ११च्-२३ ||
ततस्तस्य नियोगाच्च सिद्धमाहारमाहृतम् |
न्यवेदयंश्च तत्रैषां गोपनार्यः सदारकाः || ११च्-२४ ||
तत्र तौ विमले वस्त्रे परिधाय स्वलम्कृतौ |
आजह्रुरशनम् भृष्टममृतं विबुधा इव || ११च्-२५ ||
भक्ष्यं भोज्यं च पेयम् च विधिवत्व्यञ्जनान्वितम् |
आहृत्याचम्य तत्रैव कंचित्कालं विशश्रमुः || ११च् -२६ ||
तत्र मङ्गलसंयुक्ताः शकुना यमुनातटे |
शिवाश्च लोकसिद्द्ध्यर्थं शिवा वाचो ववाशिरे || ११च्-२७ ||
तत उथाय गोपालाः स्वदेशान्प्रति निर्ययुः |
गोनिवेशं मुदा युक्ताः सायाह्ने वीतकल्मषः || ११च्-२८ ||
नृत्यन्त प्रहसन्तश्च धावन्तश्च परस्परम् |
आलिङ्गन्तः प्रमुदिता लङ्घयन्तस्तथापरे || ११च्-२९ ||
सभ्रूविलसितां वीणां वादयन्तस्तथापरे |
प्रतियाताः सुखं गोपाः सुकण्ठा मधुरस्वराः ११च्-३०
पटहानां निनादश्च वेणुवीणाविमिश्रितः |
समन्ततः प्रादुरासीत्कृतो गोपैर्मुदान्वितैः || ११च्-३१ ||
एवं सम्भूतमतुलं शब्दं कुर्वन्कुमारकाः |
प्रहर्षमतुलं लब्ध्वा भेजिरे वासमेव ते || ११च्-३२ ||
December 7, 2008