harivaMsha, Volume II, Appendix 1, pp.62-65, BORI 1971
१३
itranslated by A. Purushothaman, purushothaman_avaroth @ yahoo.com
वामदेवभरद्वाजयोः कृष्णदर्शनार्थं वृन्दावनागमनम्
भाण्डीरे सुखमासीनं विहरन्तं जनार्दनम् |
वामदेवभरद्वाजौ तत्र प्राप्तौ यर्दृच्छया || १३-१ ||
कृष्णाजिनधरौ दान्तौ नियमव्रतकर्शितौ |
गङ्गातीर्थाय संक्रान्तौ भास्करौ द्वाविवागतौ || १३-२ ||
बृहत्पिङ्गजटाभारप्रतिबद्धशिरोदरौ |
प्रमाणं सर्वलोकानां वेदवेदाङ्गपारगौ || १३-३ ||
वल्कलाजिनसंवीतौ मुनी यमपरौ सदा |
नमस्कर्तुं तदा वीर भाण्डीरं यक्षसेवितम् || १३-४ ||
प्रदक्षिणं समुद्युक्तौ वत्सपलान्महामुनी |
ददर्शतुः समं वत्सान्कालयानांश्च गोगणान् || १३-५ ||
पप्रच्छतुस्तदा तत्र भाण्डीरद्रुमवासिनः |
हे वत्साः क्व च नो मार्गो यमुनातीर्थदर्शने |
क्व च तीर्थं सुसोपानं झषग्राहविवर्जितम् || १३-६ ||
श्रुत्वैतद्दारका वाक्यं जहसुर्मुनिपुंगवौ |
मार्गज्ञा न वयं बाला ज्ञानिभ्यः संप्रपृच्छताम् |
कुतोऽत्र यमुना शुब्रा कुतो मार्गः कुतो वयम् || १३-७ ||
एतस्मिन्नन्तरे कृष्णस्तेषां वाक्यं तयोरपि |
श्रुत्वा तौ समुपागम्य वक्तुमेवं प्रचक्रमे || १३-८ ||
एष वां पथ आदेष्टा गवामिव सुयन्त्रितः |
अहं नन्दस्य तनयः कृष्ण इत्यभिविश्रुतः || १३-९ ||
ममायमग्रजो रामश्चन्द्रमा इव भासते |
आवयोर्गोगणः सर्वो वचनं च निशम्यताम् || १३-१० ||
एतद्दध्योधनं सम्यग्गृह्यतां यदि रोचते |
पायसं सुरसं दुग्धं धानाश्च गुडमिश्रिताः || १३-११ ||
एवमुक्ते ततस्तस्मिन्कृष्णे कमललोचने |
तौ काविमाविति तदा समाधिं जग्मतुर्मुनी || १३-१२ ||
तौ नेत्राणि समुन्मील्य प्रीतौ दृष्त्वा जगत्पतिम् |
इदमूचतुरध्यात्मं मुनी कृष्णस्य संमतम् || १३-१३ ||
त्वामादिः सर्वभूतानां मध्यमन्तस्तथा भवान् |
स्रष्टा सर्वस्य |ओकस्य पाता भोक्ता जनार्दन || १३-१४ ||
स्रष्टा वेदस्य यज्ञस्य हविषाभृत्विजां हरे |
कर्मणां फलभोक्ता च फलदः कर्म कुर्वताम् || १३-१५ ||
निषेद्धा दुष्टसत्त्वस्य हन्ता त्वं तमसां परः |
नेत्रे ते भानुशशिनौ नासिका च समीरणः || १३-१६ ||
वाचः सरस्वती देवी जिह्वा मेधः प्रकीर्तितः |
दन्ताश्च पर्वता ज्ञेया कर्णः पातालगोचरः || १३-१७ ||
लक्ष्मीर्वक्षस्तु विज्ञेया वामो बाहुस्तु शंकरः |
स्कन्दश्च दक्षिणो बाहुरञ्गुल्यः सागराः स्मृताः || १३-१८ ||
अम्बरं कुक्षिरित्युक्तं विवराणि दिशः स्मृताः |
रोदसी तव पादौ च केशा देवाः स्मृता हरेः |
लोमानि यक्षगन्धर्वाः पिशाचा राक्षसा विभो || १३-१९ ||
यान्येव वस्तुजातानि |ओके दृष्टानि माधव |
तानि गात्रेषु पश्यामः पुरुषोत्तम ते हरे || १३-२० ||
अधो भवन्तं भगवन्द्रक्ष्यामः सकलात्मना |
भवन्तमूर्ध्वं पश्यामो भवन्तमथ पृष्ठतः |
पार्श्वतः पुरतश्चैव भवन्तं वीक्ष्य निर्वृताः || १३-२१ ||
त्वमादौ क्रोडदंष्ट्राग्रे अदधा गां सपर्वतां |
यथास्थानं प्रतिष्टाप्य हिरण्याक्षं प्रजघ्निवान् || १३-२२ ||
नारसिंहवपुर्भूत्वा देवमानुषकण्टकम् |
दैत्येन्द्रं हतवान्विष्णो राज्यं दत्त्वा मरुत्वते || १३-२३ ||
जमदग्निसुतो भूत्वा हतवान्पितृघातकम् |
कार्तवीर्यं महात्मानं सकलक्षत्रकण्टकम् || १३-२४ ||
रघोरन्वयमापन्नस्त्वमेव जगतां पते |
गत्वाब्दौ सेतुना विष्णो |अङ्कां रावणपालिताम् || १३-२५ ||
रावणं ससुतं हत्वा सानुजं सबलं प्रभो |
निष्कण्टकमिमं लोकमकरोः पुरुषोत्तम || १३-२६ ||
बलेर्वामनतां गत्वा महीमादाय मायया |
दत्तवांस्त्रिदशेन्द्राय पाताले तं व्यदीदधाः || १३-२७ ||
तत्तद्रूपमुपागम्य लोकान्रक्षसि माधव |
इदानीमपि देवेश देवदेव यदोः कुले || १३-२८ ||
अवतीर्य हरे विष्णो देवपक्षविरोधिनः |
गोपालवेषमास्थाय कृष्णोऽसि शुभवेषवान् |
प्रलम्बं केशिनं हत्वा हन्त कंसस्य माधव || १३-२९ ||
अहो रम्यमिदं विष्णो वपुर्नीलोत्पलच्छवि |
नीलकुञ्चितकेशाड्यमुन्निद्रकमलेक्षणम् |
वनमालाकृतोरस्कं रज्जुयज्ञोपवीतिनम् || १३-३० ||
शिक्यालम्बिघटीकक्षं करीषप्रोक्षितोदरम् |
किंकिणीजालसंछन्नकटिशोभि प्रभामयम् || १३-३१ ||
दामकीलसमासक्तभुजद्वयविभूषितम् |
वेणुवीणारवं कुर्वन्पर्णवाद्यमनोहरम् |
अहो मनोरमं रूपं पश्यामस्तव माधव || १३-३२ ||
गोपालास्ते चिरं धन्या ये रूपमिदमीदृशम् |
पश्यन्ति नित्यशो विष्णो नमस्ते पुरुषोत्तम || १३-३३ ||
नमः कृष्णवपुर्धात्रे गोपवेषविलासिने |
अचिन्त्यविभवे तुभ्यं सर्वगाय नमो नमः || १३-३४ ||
नमः सकलकल्याणकल्याणाय नमो नमः |
नमः परमतत्त्वाय नमः परमयोगिने || १३-३५ ||
देवदेव जगद्वास सर्वकारणकारण |
भूयः पुनर्नमस्यामस्तव योगपदं हरे |
साधयामो नमस्तेऽस्तु तीर्थाय जगतां पते || १३-३६ ||
इत्युक्त्वा हरिमीशेशं तीर्थाय मुनिपुंगवौ |
जग्मतुस्तत्र भाण्डीरे स्थितौ तौ रामकेशवौ |
चिक्रीडतुर्यथायोगं सगोपौ रामकेशवौ || १३-३७ ||
December 13, 2008