harivaMsha, Volume II, Appendix 1, pp.69-70, BORI 1971
itranslated by A. Purushothaman, purushothaman_avaroth @ yahoo.com
१६
जरासंधेन मथुरोपरोधः
आगत्य यमुनातीरं जरापुत्रः प्रतापवान् |
विन्दानुविन्दावावन्त्यौ दौत्येन समचोदयत् || १६ -१ ||
तौ गत्वा मथुरां वीरौ द्वाःस्थेन प्रतिवेशितौ || १६-२ ||
आसनस्थं तदा राजन्नुग्रसेनं पतिं नृप |
तत्पार्श्वे च स्थितं कृष्णं बलभद्रेण संगतम् || १६-३ ||
वसुदेवं महावीर्यं सात्यकिं च महामतिम् |
अन्यांश्च यादवान्दृष्ट्वा समीपस्थान्महीपतेः || १६-४ ||
तौ तु सर्वान्समाभाष्य कंसस्य पितरं तदा |
ऊचतुः सुखमासीनौ वासुदेवं च साग्रजम् || १६-५ ||
आह युष्मान्महावीर्यो जरासंधः प्रतापवान् |
श्रूयतां मम यद्वाक्यं दुःखितस्याबलस्य मे || १६-६ ||
सुताद्वयं महाराज द्रष्टुमिच्छामि दुःखितम् |
विवशं शोकसंतप्तं दुःखसागरसंश्रितम् || १६-७ ||
यत्तु कंसो हतः संख्यो कृष्णेन हि बलीयसा |
अश्स्क्तोऽहं तथा राजन्कृतस्य प्रतिकर्मणः || १६-८ ||
यत्तु युद्धं बलवता कृष्णेन कृतमित्यपि |
नात्र मे विस्मयः कार्यो बलवान्स हि साग्रजः || १६-९ ||
किं तु दुःखं महद्भूतं दुःसहं मम जायते |
तद्दुःखं दुःसहं मन्ये वक्तुं च मम दुःसहम् || १६-१० ||
मगधेन्द्रे महावीर्ये सबले मयि मानद |
चित्रमेतन्महाराज यत्कृतं मयि जीवति || १६-११ ||
कृष्णेन सुकृतं कर्म मां मत्वा पशुमित्यपि |
किं नूनं दुष्करं कर्म कृत्वा कृष्णस्तु जीवति || १६-१२ ||
जीवत्येवं जरापुत्रे मावमंस्ता यदूत्तम |
जीवितं तु समाप्तं मे कृष्णे जीवति संप्रति || १६-१३ ||
इत्युक्त्वा पुनराहेदं क्रोधविस्फारिताननः |
यदि कृष्णं स्थितं संख्ये हनिष्ये यदि मन्मुखे || १६-१४ ||
नाहं कंसो न वा केशी नारिष्टो न च पूतना |
जरासंधं महीपालं मावमंस्था महीपते || १६-१५ ||
इमामप्यपरां राजन्प्रतिज्ञां शृणु केशव |
यदि त्वं मत्पुरो भूयास्तदा हन्मि सबान्धवम् || १६-१६ ||
संनद्धो भव युद्धाय स्थितोऽहं युद्धलालसः |
यत्र यत्र भवान्याति तत्र तत्राहमास्थितः || १६-१७ ||
जीवति त्वयि गोविन्द जरासंधो न जीवति |
आगच्छ सह युद्धाय बलभद्रेण धीमता || १६-१८ ||
किमेभिर्बहुभिर्वृद्धैरुग्रसेनपुरोगमैः |
आगच्छतु भवाञ्शीघ्रं बलभद्रसहायवान् || १६-१९ ||
सातयके युक्तमेवैतत्कृतं कृष्णेन किं प्रभो |
वसुदेव यदुश्रेष्ठ युक्तं पुत्रेण किं तव |
अक्रूर वद सत्येन युक्तं वात्रान्यथापि वा || १६-२० ||
मृधे कृष्ण यदुश्रेष्ठ स्थिरो भव न चञ्चलः |
बहुनात्र किमुक्तेन न स्थिरं तव जीवितम् || १६-२१ ||
श्वः पुरिं तव रोत्स्यामि नात्र कार्या विचारणा |
को न्विदं साहसं कुर्यात्त्वां विना कृष्ण सांप्रतम् || १६-२२ ||
इत्युक्त्वा तौ महावीर्यों विरामं जग्मतुस्तदा || १६-२३ ||
इत्युक्तो रोषताम्नाक्षः कृष्ण ऊचे वचस्तदा |
हतः कंसो महाराज किमतः साहसं कृतम् |
किं चित्रं वद राजेन्द्र हतः कंस इतीह नः || १६-२४ ||
इदं च तस्मै वक्तव्यं भवद्भ्यां राजसत्तमौ |
स्थितोऽस्मि युद्धसंरक्तो जेष्यामि च रणे रिपून् || १६-२५ ||
त्वां हत्वा सबलं संख्ये राज्यमादाय सांप्रदम् |
उग्रसेनाय दास्यामि सत्येन च शपाम्यहम् || १६-२६ ||
इत्युक्त्वा विररामैव केशवः केशिसूदनः |
तौ तु गत्वा तदा सर्वं तस्मै च प्रोचतुः प्रभो || १६-२७ ||
वैशंपायन उवाच |
गते दूतद्वये राजन्मागधेन्द्रं जनाधिपं |
तं श्रुत्वा राजराजेन्द्रमाहवेप्सुममर्षणम् || १६-२८ ||
हन्तुकामं जगन्नाथं बलभद्रं च मागधम् |
प्रतापज्ञा हि यदवो मागधस्य महात्मनः |
शङ्कमाना भयं तस्माज्जरासंधान्महीपतेः || १६-२९ ||
स्थिते हि लोकनाथेऽस्मिन्सर्वेषां बलहारिणि |
स प्रातापो हि बलवान्मगधेन्द्रस्य सर्वतः || १६-३० ||
February 4, 2009