harivaMsha, Volume II, Appendix 1, pp.128-131, BORI 1971
itranslated by A. Purushothaman, purushothaman_avaroth @ yahoo.com
१८ आ
संकर्षणजरासंधयुद्धम्
ससैन्यः सबलश्चापि पृष्ठतोऽन्वचरत्किल |
इत्युक्त्वा पार्थिवान्सर्वान्कृष्णः कृष्णाम्बुदोपमः || १८आ -१ ||
पूर्वजेन सहायेन स्थितः समरमूर्धनि || १८आ-२ ||
श्रुत्वैव तु जरासंधः क्रोधविस्फारितेक्षणः |
प्रलप्तश्च तथा राजा विष्णुना प्रभविष्णुना || १८आ-३ ||
धन्वी बाणी रथी खड्गी कुण्डली कवची बली |
शूराणामग्रणीः साक्षादेक एवातुलो नृपः |
केशवस्य पुरः स्थित्वा बभाषे केशिसूदनम् || १८आ-४ ||
किमेतैस्तुच्छवाक्यैर्हि तिष्ठेदानिं ममाग्रतः |
यद्बलं यच्च ते वीर्यं दर्शयस्व यदिच्छसि || १८आ-५ ||
एष त्वां प्रहरिष्यामि तिष्ठ तावद्रणे क्षणम् || १८आ-६ ||
एते ये निहता गोप राजानो बलमोहिताः |
एतैर्वराकैर्गोपाल कृतं राजविदूषकैः || १८आ-७ ||
एष त्वां दर्शयिष्यामि यमराजानमेव हि |
इत्युक्त्वा स जरासंधः कृष्णमभ्यद्रवद्रणे || १८आ-८ ||
तं दृष्ट्वा रोषताम्राक्षं कृष्णो वाक्यमुवाच ह |
इच्छातः प्रहरस्वेति यदि शक्नोषि राजक || १८आ-९ ||
एष ते प्रमुखे राजन्स्थितोऽहं किं विकत्थसे || १८आ -१० ||
नैतावता रणे राजञ्शूराः सन्ति नृपोत्तमाः |
शरैर्वा यदि वा शस्त्रैर्दर्शयस्व पराक्रमम् || १८आ-११ ||
इत्युक्त्वा स जगन्नाथः सर्वेषामग्रणीर्हरिः |
सुपर्णद्वजमास्थाय कृष्णस्तु रथमुत्तमम् |
तमभ्ययाज्जरासंधं शरैर्विव्याध चाष्टिभिः || १८आ-१२ ||
सारथिं चास्य विव्याध पञ्चभिर्निशितैः शरैः |
जघान तुरगांश्चाजौ यतमानस्य वीर्यवान् || १८आ-१३ ||
बलदेवो धनुश्चास्य चिछेद नतपर्वणा || १८आ-१४ ||
तं कृच्छ्रगतमाज्ञाय चित्रसेनो महाबलः |
सेनानीः कौशिकश्चैव कृष्णं विव्याध पञ्चभिः || १८आ-१५ ||
त्रिभिर्विव्याध संक्रुद्धः कामपालं तु कौशिकः |
बलदेवो धनुश्चास्य भल्लेनाजौ द्विधाकरोत् || १८आ-१६ ||
जवेनाभ्यर्दितश्चापि तानरीञ्शरवृष्टिभिः |
जनार्दनोऽपि भगवानाजघान स मागधम् || १८आ-१७ ||
जरासंधोऽपि वेगेन धनुरन्यन्महारथः |
सज्यं कृत्वा महावीरः केशवं निशितैः शरैः |
आजघान शरीरं वै नीलोत्पलदलप्रभम् || १८आ-१८ ||
भगवानपि गोविन्दः शरेण नतपर्वणा |
ललाटे चास्य चिक्षेप जरासंधस्य चाभिभूः || १८आ-१९ ||
पुनर्विव्याध निशितैर्बानैः शैलोपमैस्तथा |
तं चित्रसेन संरब्धो विव्याध निशितैः शरैः |
कौशिकः पञ्चविंशत्या जरासंधस्तु सप्तभिः || १८आ-२१ ||
त्रिभिस्त्रिभिश्च नाराचैस्तान्बिभेद जनार्दनः |
पञ्चभिः पञ्चभिश्चैव बलदेवस्तु तानरीन् || १८आ-२२ ||
कृष्णो रथाश्वांश्चिच्छेद चित्रसेनस्य वीर्यवान् |
बलदेवो धनुश्चास्य भल्लेनाजौ द्विधाकरोत् || १८आ-२३ ||
संछिन्नधन्वा विरथो गदामादाय वीर्यवान् |
अभ्यद्रवत्सुसंक्रुद्धो जिघांसुर्मुसलायुधम् || १८आ-२४ ||
सिसृक्षतस्तु नाराचांश्चित्रसेनवधैषिणः |
धनुश्चिच्छेद रामस्य जरासंधो महाबलः || १८आ-२५ ||
गदया च जघानाशु चित्रसेनो हलायुधम् |
जरासंधस्तु बलवान्केशवं पञ्चभिः शरैः || १८आ-२६ ||
पुनर्नवत्या विव्याध पुनश्चैव हि सप्तभिः |
अशीत्या च जरासंधः कृष्णं नीलोत्पलच्छविम् |
धनुश्चिच्छेद भगवाञ्जरापुत्रस्य धीमतः || १८आ-२७ ||
उत्सृज्य सशरं चापं गदामादाय वीर्यवान् |
जघान च तदा विष्णुं बाहुदेशो बली तदा || १८आ-२८ ||
गदया चैव गोविन्दो जघानास्य च वक्षसि |
जानुभ्यां निपपातोर्व्यां पुनरुत्थाय मागधः |
गदायाथ हरिं वेगाज्जघानाहत्य वक्षसि || १८आ-२९ ||
हरिश्च गदया राजञ्जरासंधममर्षणम् || १८आ-३० ||
न ममर्ष जरासंधो गदायातं जनार्दनम् |
जघान स्तनयोर्मध्ये बलदेवस्य पश्यतः || १८आ-३१ ||
ततः पीडित सर्वाङ्गो ययौ कृष्णो महीतलम् |
सिंहनादं ततश्चक्रे मागधो राजसत्तमः |
हतः कृष्णो हतः कृष्ण इति वाचं समाददे || १८आ-३२ ||
तं दृष्ट्वा पतितं कृष्णं क्रोधाद्द्विगुणविक्रमः |
आदाय मुसलं रामो जरासंधमभिद्रवत् || १८आ-३३ ||
जघान स्तनयोर्मध्ये बाहुभ्यां यदुनन्दनः |
पुनश्च गदया रामो ललाटे तं जघान ह |
जानुभ्यामपतद्भूमौ गतसंज्ञो जरासुतः || १८आ-३४ ||
उत्थाय सहसा भूमेर्जरासंधः प्रतापवान् |
बलभद्रं जघानाशु सस्वनं मागधस्तदा || १८आ-३५ ||
ततो हलधरो वीरो गदया सर्वपुष्टया |
चिच्छेद तां गदां वीरः कृष्णस्य पुरतस्तदा || १८आ-३६ ||
जरासंधस्तु बलवानुत्सृज्य महतीं गदां |
पुनरन्यां महाचण्डां सर्वायुधसमन्वितां || १८आ-३७ ||
आदाय निशितां घोरां तां जघान हलायुधम् |
पुनश्च गदया तं तु ललाटेऽभ्यहनत्बली || १८आ-३८ ||
मुष्टिना च समाहत्य गदया च तदा भृशं |
तलेन च जघानाशु वासुदेवस्य पश्यत || १८आ-३९ ||
ततोमूर्छां समापेदे बलभद्रः प्रतापवान् |
सिंहनादं ततश्चक्रे राजा स मगधेश्वरः || १८आ-४० ||
एतस्मिन्नन्तरे विष्णुः संज्ञां प्राप्य जरासुतं |
गदया पोथयामास दानवारक्तसिक्तया |
जरापुत्रस्तदा तस्मै प्राहिणोच्छक्तिमुत्तमाम् || १८आ-४१ ||
तस्मिन्नेव ददौ वीरः साक्षाद्विष्णुर्बलेरिव || १८आ-४२ ||
स तया ताडितो राजा पपात च सुमोह च || १८आ-४३ ||
प्राप्तसंज्ञस्तदा राजा परिघेण समाहनत् || १८आ-४४ ||
तयोस्तु युद्धमभवत्परस्परवधैषिणोः |
देवासुरसमं युद्धमासीत्प्रथमसंगमे |
नमुचेश्चैव शक्रस्य रामरावणयोरिव || १८आ-४५ ||
उभौ तौ लोकविख्यातौ बले चास्त्रे च विश्रुतौ |
उभावेव रणे वीरौ युद्धे च परिविश्रुतौ || १८आ-४६ ||
एतस्मिन्नन्तरे विष्णुः शार्ङ्गमादाय वीर्यवान् |
शरेणाशनिकल्पेन विव्याध मघ्देश्वरम् || १८आ-४७ ||
अर्दितः स तु राजेन्द्रो गदयापोथयद्धरिम् |
स हित्वा तु तदा शार्ङ्गं गदया तं जघान ह || १८आ-४८ ||
बलभद्रोऽपि धर्मात्मा प्रहर्तुं तं विनिश्चितः |
तदन्तरे प्राह वीरो दरदो नाम पार्थिवः |
न युक्तं राम रामेति परासक्तं प्रति प्रभो || १८आ-४९ ||
तं दृष्ट्वा रोषताम्राक्षो हली मुसलमाददे |
रामं हलधरं राजा प्रतीयाद्युद्धदुर्मदम् || १८आ-५० ||
तयोस्ततद्युद्धमभवद्रजयूथपयोरिव || १८आ-५१ ||
February 8, 2009