harivaMsha, Volume II, Appendix 1, pp.203-205, BORI 1971
itranslated by A. Purushothaman, purushothaman_avaroth @ yahoo.com
२६
नरकासुरेण मनुष्यलोकबाधनम्
26a (pp. 203-204)
वैशंपायन उवाच
संप्राप्य मानुषं लोकं नरको दानवोत्तमः |
द्वारवत्यां जगन्नाथे तस्मिन्रक्षसि भूतलम् |
बबाधे मानुषान्सर्वानृषीन्विप्रांश्च दानवः || २६अ-१ ||
रक्षत्येव जगन्नाथे विप्रान्मुनिगणांस्तथा |
बाधते स्म तथा दैत्यो विप्रान्मुनिगणांश्च सः || २६अ-२ ||
ततः कदाचिद्दैत्येन्द्र उर्वशीवचनं स्मरन् |
बदर्यां हि महाराज यष्टुं मुनिगणांस्तदा |
सत्रेण शक्रं देवेशम् तथा देवगणानपि || २६अ-३ ||
दृष्त्वा तान्मुनिवीरांस्तु नरको दानवोत्तमः |
प्रोवाच वचनं काले यष्टव्योऽस्मि मुनीश्वराः || २६अ-४ ||
अस्मिन्काले जगन्नाथ इन्द्रोऽहं विबुधाधिपः |
जितः शक्रो रणे विप्रा लोकपालैः सहामरैः |
तत इज्यो नमस्कार्यो वन्द्यो लोकहिताय वै || २६अ-५ ||
तदेतद्वचनं श्रुत्वा नरकस्य दुरात्मनः |
आहुस्ते मुनयः सर्वे बदरीवासतत्पराः || २६अ-६ ||
यक्ष्यामो न वयं दैत्य दानवोऽसि दुरात्मवान् |
इन्द्रं देवगणैः सार्धं यक्ष्यामो विगतज्वराः || २६अ-७ ||
तच्छ्रुत्वा रोषताम्राक्षो दानवानिदमब्रवीत् |
वध्यन्तामृषयः सर्वे भिद्यन्तां यज्ञभूमयः || २६अ-८ ||
न त्वां यक्ष्याम हे दैत्य इत्यूचूः किल तापसाः |
ते च सर्वं तथा चक्रुर्दानवा दुष्टचेतसः || २६अ-९ ||
यज्ञभूमिं समालोक्य यज्ञभारांश्च सर्वशः |
अग्नीन्संमिश्रयामासुर्ददहुर्दर्भपुञ्जकान् || २६अ-१० ||
कमण्डलून्द्विधाकृत्य जटा आच्छिद्य दूरतः |
प्रक्षिप्य दानवाः सर्वे नरकेण समन्विताः || २६अ-११ ||
यज्ञवाटं समालोड्य चक्रुर्भस्म तदा नृप |
तावत्तानि हविंष्यत्र भक्षयामासुरोजसा |
आनीतान्यज्ञसिद्ध्यर्थं पशून्यज्ञसमागमे |
तेष्वेव चाग्निमुख्येषु दग्ध्वा ते दानवोत्तमाः || २६अ-१२ ||
एवं ते दानवाः सर्वे चक्रुर्विघ्नक्रियां तदा |
ते च सर्वे मुनिवराः पलायन्ति दिशो दश || २६अ-१३ ||
तत्र या मुनिकन्यास्तु जहार नरकस्तदा |
प्राग्ज्योतिषं जगामाशु कन्याभिस्ताभिरेव च |
यथेष्टं मुमुदे तत्र प्रियाभिः सह दानवः || २६अ-१४ ||
December 16, 2008
26b (pp. 204-205)
वैशंपायन उवाच
गतेषु दैत्यसैन्येषु मुनयो दैन्यपीडिताः |
तस्मिन्नेवाश्रमे रम्ये मन्त्रयित्वा परस्परम् || २६ब्-१ ||
देवाय लोकनाथाय कृष्णाय च महात्मने |
निवेदयामः पापस्य दानवस्य कृतं पुनः |
यदि स प्रतिकुर्याद्धि तन्नः श्रेयो भविष्यति || २६ब्-२ ||
यदि जीवेदसौ पापो नरको दानवोत्तमः |
जगन्न स्थास्यते सम्यग्विनष्टश्च भवेज्जनः || २६ब्-३ ||
इति संमन्त्र्य मुनयो बदरीसंनिवेशिनः |
यज्ञभारं तदाच्छिन्नम् नरकेण दुरात्मना |
गृहीत्वा मुनयः सर्वे शिष्यैर्धर्मनिसंतताः || २६ब्-४ ||
केशवाय च तस्मै तु बदरीफलसंहितम् |
केशवेनोपभुक्तां तु तस्मिन्नाश्रमसंपुटे |
ते गत्वा दूरमध्वानं दक्षिणं मार्गमास्थिताः || २६ब्-५ ||
वसिष्टो वामदेवश्च जाबालिरथ काश्यपः |
कण्वो धूम्रो बृहद्दुर्गो भरद्वाजश्च गालवः |
कवषो धूम्रकेतुश्च काश्यः कापिलकस्तथा || २६ब्-६ ||
एते चान्ये च मुनयो नरकेण दुरात्मना |
बाधिताः पुण्डरीकाक्षं द्रष्टुकामास्तपस्विनः || २६ब्-७ ||
शिष्यैः सह समायाता आर्ता दानवपापिना |
कृतवेदार्थतत्वज्ञा द्रष्टुकामा जनार्दनम् || २६ब्-८ ||
गङ्गां च समनुप्राप्य स्थितास्तस्यास्तटे तदा |
तत्र स्नातुं समारब्धा मुनयः संशितव्रताः || २६ब्-९ ||
अत्र स्नात्वा वयं यामो द्रष्टुं लोकहितैषिणम् |
नित्यशुद्धं जगन्नाथं वसन्तं द्वारकापुरे || २६ब्-१० ||
इति सम्चिन्त्य मुनयः स्नानं चक्रुर्यथाविधि |
येन योग्या मुनिवरआ द्रष्टुं केशवमव्यं |
तस्मिन्गङ्गाम्भसि स्नात्वा सर्वे शुद्धस्तपोधनाः || २६ब्-११ ||
अवतीर्य ततो गङ्गां नौभिर्मुनिवरास्तदा |
क्रमेण समनुप्राप्ता द्वारकां कृष्णपालिताम् || २६ब्-१२ ||
प्रविश्या द्वारकां ते तु वसिष्ठाद्या मुनीश्वराः |
अतीत्य यदुमुख्यानां भवनानि सहस्रशः || २६ब्-१३ ||
या सभा लोकविख्याता सुधर्मेति च विष्रुता |
तस्या द्वारं समास्थाय द्वाःस्थं प्रोचुर्महर्षयः | २६ब्-१४
निवेद्यतां द्वारपाल केशवाय महात्मने |
बदर्यां वै समुषिता मुनयः संशितव्रताः |
द्रष्टुं त्वां समनुप्राप्ता पीडिता दानवोत्तमैः || २६ब्-१५ ||
तच्छ्रुत्वा द्वारपालोऽपि केशवाय महात्मने |
निवेदयामास तदा यदुक्तं मुनिसत्तमैः || २६ब्-१६ ||
श्रुत्वा तु देवदेवेशो मुनीन्यदुवरार्चितः |
प्रवेश्यन्तामिति प्रोक्ताः प्रद्युम्नं समचोदयत् || २६ब्-१७ ||
अर्घ्यं पाद्यं तदा पात्रमासनानि समन्ततः |
आनीयन्तां यथायोगं स च सर्वं चकार ह |
ते प्रविष्टा मुनिवरास्तां सभां सभ्यपूजितां || २६ब्-१८ ||
December 18, 2008