harivaMsha, Volume II, Appendix 1, pp.209, BORI 1971
२८
itranslated by A. Purushothaman, purushothaman_avaroth @ yahoo.com
नरकासुरेण सह कृष्णस्य युद्धम्
शङ्खं प्राध्मापयामास शार्ङ्गधन्वा गदाधरः |
तस्य शङ्खरवं श्रुत्वा नरको युद्धदुर्मदः || २८-१ ||
धनुराधाय विस्फार्य नादेन महता तदा |
नादयन्रोदसी यायाद्युद्धाय नरको बली २८-२
केशवं पुरतो दृष्ट्वा गदिनं शार्ङ्गिणं तथा |
उवाच नरको दैत्यः को भवान्किमिहागतः |
दैत्येन्द्रो नरकः प्रष्टा जेता शक्रस्य संयुगे || २८-३ ||
कोऽयं पक्षी स्थितः पार्श्वे कैषा ते वद सांप्रतम् |
एनां ग्रहीतुमिच्छामि जानीयां यदि सांप्रतम् || २८-४ ||
एवमुक्तो जगन्नाथः प्रहस्य सुचिरं तदा |
आलोक्य सत्यभामां तु वचनं चेदमब्रवीत् || २८-५ ||
वासुदेवोऽस्मि दैत्येन्द्र यदि ते श्रुतिमागतः |
एषा सत्राजितः पुत्री भार्या मम यवीयसी || २८-६ ||
एष तार्क्ष्यो गरुत्मांस्तु वाहनं मम दैत्यप |
त्वां हन्तुमिह संप्राप्तो वदामि किमतः परम् || २८-७ ||
श्रुत्वैतद्दानवो घोरो विहस्य सुचिरं तदा |
वासुदेवोऽसि संप्राप्तो मां हन्तुं किल यादव || २८-८ ||
दिष्ट्या संप्राप्तवानद्य चिन्तनीयः सदा मया |
कदासौ दृश्यते युद्धे हनिष्यामीति मे मतिः || २८-९ ||
क्षणम् तिष्ट यदुश्रेष्ठ कुरु युद्धं यदिच्छसि |
हत्वा त्वामद्य संप्राप्तमानयामि पुरं मम || २८-१० ||
एनां पद्मपलाशाक्षीं युध्यतां किं विलम्बसे |
इच्छातः प्रहरस्वेति प्रोवाच यदुनन्दनः || २८-११ ||
December 20, 2008