harivaMsha, Volume II, Appendix 1, pp.37-38, BORI 1971
itranslated by A. Purushothaman, purushothaman_avaroth@yahoo.com
कृष्णसंकर्षणयोर्बालक्रीडा
अतिप्रसक्तौ क्रिडायां कृष्णसंकर्षणौ मुहुः |
क्वचिद्वेश्मनि निर्गत्य नवनीतं च गृह्णतः || ९-१ ||
संक्षोभ्य तक्रं बहुशो दारकौ दारकैः सह |
अन्वभूतां ततो राजन्घटांश्च परिजघ्नतुः || ९- २ ||
दधि पीत्वा तु देवेशौ तान्घटांश्च पिपेषतुः |
शिक्यं च परिजग्राह कृष्णो दारकवेषवान् || ९-३ ||
भित्त्वा छित्त्वा च गोविन्दः पपौ क्षीराणि सर्वशः |
तच्छिष्टं चैव देवेशः क्षितौ च समवाक्षिपत् || ९- ४ ||
पायसं च समानीय गृहादन्यत्र विक्षिपन् |
दारकेभ्यस्तदा कृष्णो ददौ स्वं च समाचरन् || ९-५ ||
शिक्याच्च घटमादाय दध्नां दारकसत्तमः |
निर्भिद्याच्छिद्य भूमौ तु निष्पिपेष स केशवः || ९-६ ||
दारकौ तौ तु सहसा वत्सानां च परंतप |
दाम्नां विमोचनं कृत्वा वत्सान्धेनूरपायताम् || ९-७ ||
प्रतिवेश्म तदा तौ तु व्यसनं पर्य कुर्वताम् |
अतिप्रसक्तौ तौ दृष्ट्वा सर्वव्रजविचारिणौ || ९-८ ||
न च शक्तो वारयितुं नन्दगोपः सुदुर्मदौ |
ततस्तु दारकैः सार्धं कृष्णश्चक्षुश्च तद्गतम् || ९-९ ||
एकस्य तु तदा कृष्णो दारकस्य महीपते |
प्रच्छाद्य तरसान्यं तु दारकं प्रत्युवाच ह || ९-१० ||
गच्छ वत्स यथान्यत्र तथा दृष्टैश्च दारकैः |
यदि दृष्टस्त्वमन्यैस्तु जितो दण्डधरो मम || ||
स गत्वा बलभद्रस्तु गृहीत्वा दारकं बलात् || ||
केशवाय ददौ तं तु त्वं जितः केशवोऽब्रवीत् ९-१२
कीलकं च समानीय विक्षिप्य भुवि गूहितम् |
आहूय दारकान्सर्वानिदमाह जगत्पतिः || ९-१३ ||
शक्तश्चेद्भवतां कश्चित्कीलं गृह्णातु पश्यतः |
मम पार्श्वगतो भूत्वा दण्डो देयश्च तस्य ह || ९-१४ ||
तच्छ्रुत्वा दारकाः सर्वे तं द्रष्टुं यत्नमास्थिताः |
नाशन्कुवंश्च ते सर्वे जितांस्थानब्रवीदिति || ९-१५ ||
एवमाद्यानि गोविन्दो बालक्रीडनकानि वै |
चकार मतिमान्कृष्णो दारकैः सह गोकुले || ९-१६ ||
November 14, 2008