harivaMsha, Volume II, Appendix 1, pp.38-40, BORI 1971
९आ
itranslated by A. Purushothaman, purushothaman_avaroth@yahoo.com
यशोदायै गोपीनां कृष्णदुश्चेष्टितकथनम्
क्वचिद्वेश्मनि संगम्य शिक्यस्थान्पयसो घटान् |
आदाय युगपत्सर्वान्पयः पीत्वा मुदा भृशम् |
अभिहत्य ततः सर्वान्निष्पिपेष हसन्बहिः || ९आ-१ ||
आच्छिद्य शिक्यमन्यत्र ततो दघ्नो घटान्क्षिपन् |
यथाकामं ततः पीत्वा दारकेभ्यस्ततो ददौ || ९आ-२ ||
अथ वेगान्मुदा कृष्णः क्वचिदन्यत्र वेश्मनि |
गुप्तान्घटानुपादाय त्वरितोऽथ बभञ्ज ह || ९आ-३ ||
क्वचिद्घृतघटान्पूर्णान्बहूनादाय वेश्मनि |
व्यभजद्दारकेभ्यस्तु भक्षयंश्च स्वयं ददौ || ९आ-४ ||
अन्यतो वेश्मनः शिक्यान्घटांस्तक्रस्य पूरयन् |
आदायाधूय बहुधा तस्मिन्नेव मुहुः क्षिपन् |
व्यहसद्विविधं हासं ननर्त च स दारकः || ९आ-५ ||
तक्रेषु च पयः क्षिप्य तक्रम् च पयसि क्षिपन् |
पयो जलेषु संयोज्य घृतमघ्नौ जुहाव च |
एवं तौ सततं तत्र चक्रतुर्वेश्मसंगरम् || ९आ-६ ||
अथ वत्सान्मुहुर्बद्धान्दामभिः कीलकेषु वै |
भित्त्वा छित्त्वा च दामानि वत्सान्धेनुष्वनीयताम् || ९आ-७ ||
दामान्याच्छिद्य सर्वत्र वत्सान्दिक्षु प्रकालयन् |
आकृष्य दारकान्केशैरन्योन्यं समबन्धत || ९आ-८ ||
निरुध्यमानो गोपीभिः स चक्रे वै मुहुर्मुहुः |
सर्पिषा पयसा चैव दघ्ना तक्रेण शून्यकम् || ९आ-९ ||
प्रायेण गोव्रजं चक्रे पूरवजेन सहायवान् |
पश्यन्तीनां च गोपीनां कृष्णो नित्यं स संभ्रमम् |
पिबन्पयश्च विविधं चक्रे चैवं स वैशसम् || ९आ-१० ||
क्रन्दन्त्योऽथ मुहुर्गोप्यो यशोदानिकटं ययुः |
कृष्णस्य चेष्टितं सर्वं यशोदायै न्यवेदयन् || ९आ-११ ||
मम कुम्भ्यो दश हताः पुत्रेणानेन दुर्मते |
न च शिष्टं पयस्तक्रं घृतं वा दधि लेशकम् |
किमद्य क्रियते मूढे जीविका मम नश्यति || ९आ-१२ ||
अन्याः
पञ्जाशन्मम कुम्भीनां शिक्यादादाय ते सुतः |
घृतस्य पूर्णान्सुश्लिष्टान्पश्यन्त्या मम हन्ति ह || ९आ-१३ ||
अपराः
अन्तर्वेश्मन्यशून्यांश्च कुम्भान्सर्वान्घृतेन वै |
ताञ्शून्यान्कारयामास न च शिष्टं घृतं मम || ९आ-१४ ||
अतिक्रुद्धा तथान्याह केशानारुज्य सर्वशः |
पञ्चत्रिंशद्घटान्कृष्णो घृतेन पयसा समम् |
आधूयोत्क्षिप्य चाविध्य निष्पिपेष च भूतले || ९आ-१५ ||
न किम्चिद्व्यञ्जनं मूढे मम वेश्मनि विद्यते |
गावश्च वत्सकैः पीताः कृष्णेनानेन मोक्षितैः || ९आ-१६ ||
अन्याः
पायसं बहु पक्वं मे भद्रे जग्धमनेन वै |
दध्योदनं भृशं दत्तं दारकेभ्यो रसान्वितम् || ९आ-१७ ||
अपूपा बहवो जग्धा भर्त्रर्थे रक्षिता मया |
सक्तवो बहवः पीताः संस्कृताः शर्करादिभिः || ९आ-१८ ||
किं गृहेण च मे कार्यं किं घोषैः किं गवादिभिः |
एषा यास्यामि दुर्मेधे मूढे दुष्पुत्रसूयिनि || ९आ-१९ ||
अन्याः
धेनवो मम नष्टाः स्युर्वत्सैः सार्धं दशाद्य वै |
अनेन कालिता मूढे तव पुत्रेण दुर्हृदा || ९आ-२० ||
भक्षितं नवनीतं मे वल्मीकप्रतिमं नवम् |
जीविका मम नष्टाभूदेषा यास्यामि देशकम् || ९आ-२१ ||
एवमत्यन्ततो गोप्यो विनेदुर्विस्वरं भृशं |
का गतिर्वद भद्रेति गोप्यः सर्वास्तदाब्रुवन् || ९आ-२२ ||
अथ ताभ्यो यथानष्टं यशोदा दत्तवत्यलम् |
समाश्वास्य ततः सर्वाः स्वं स्वं वेश्म व्यकालयत् || ९आ-२३ ||
November 24, 2008