HarivaMsha, edited by P. L.~ Vaidya, Volume II, Appendices, published by BORI, Pune (1971).

Section 28A (pages 209-212)

itanslated by A. Harindranath, harindranath_a @ yahoo.com

Proof read by A. Purushothaman, purushothaman_avatoth @ yahoo.com

नरकसत्यभामायुद्धम्
शरैरनेकसाहस्रैर्जघान पुरुषोत्तमम् || २८आ-१ ||

पुनः सप्ततिसाहस्रैर्बाणैर्निशितकोमलैः |
गरुडं पोथयामास शराणां च परः शतैः |
नाराचानां सहस्रेण विव्याध यदुनन्दनम् || २८आ-२ ||

किंचिदार्तमना विष्णुर्हृष्टोऽयम् दानवोत्तमः |
इति संचिन्त्य मनसा शरैर् विव्याध पञ्चभिः |
अष्टाभिर्दानवं विष्णुर्नवभिश्च शितैः शरैः || २८आ-३ ||

दानवोऽपि महाराज विव्याध निशितैः शरैः |
वासुदेवं महाराज सर्वलोकगुरुं हरिम् || २८आ-४ ||

षड्भिर्विव्याध नाराचैर्दानवं देवकीसुतः |
दानवोऽपि जगन्नाथं शरैर्विव्याध सप्तभिः || २८आ-५ ||

तौ तु युद्धं महाघोरं चक्रतुर्युद्धलालसौ |
यथा देवासुरे युद्धे पुरा शंबरवासवौ |
यथा युद्धं महाघोरं रामरावण्योर्भुवि || २८आ-६ ||

ततः क्रुद्धो हृषीकेशः शरेण नतपर्वणा |
ध्वजं विव्याध राजेन्द्र नरकस्य दुरात्मनः || २८आ-७ ||

तमन्तरे शरै राजन्विव्याध युधिः दानवः |
विव्याध गरुडं राजन् नाराचेन महामतिः || २८आ-८ ||

विव्यधे गरुडस्तस्य नाराचेन समाहतः |
सुश्राव रुधिरं घोरं वासुदेवस्य पश्यतः |
पक्षे समाहतः पक्षी चचाल च पुनः पुनः || २८आ-९ ||

ततो रोषसमाविष्टो ग़रुदः पक्षिपुंगवः |
पक्षेण पक्षिणाम् श्रेष्टः पोथयामस दानवम् || २८आ-१० ||

आहत्य सहसा भूय आजघ्ने दृढमुष्टिना |
ततश्चचाल नरको नरकेणेव किल्बिषी || २८आ-११ ||

ततः सज्यं धनुः कृत्वा व्याविध्य च पुनः पुनः |
दीर्घेण निशितेनाजौ नाराचेन महाबलः |
आकर्णपूर्णमाकृष्य जघान हरिमीश्वरम् || २८आ-१२ ||

नाराचः स च राजेन्द्र ललाटे प्रापतत्तदा |
चचाल च जगन्नाथस्तोत्रार्दित इव द्विपः || २८आ-१३ ||

विसंज्ञश्च ततो भूत्वा रथोपस्थ उपाविशत् || २८आ-१४ ||

सत्यभामा च तं दृष्ट्वा वासुदेवं तथागतं |
चामरैर्वीजयामास पक्षाभ्यां पक्षिपुंगवः || २८आ-१५ ||

आश्वस्तोऽथ हृषीकेशः संज्ञां प्राप्य च केशवः |
धनुस्तस्यै ततो दत्वा शार्ङ्गं भारसहं रणे |
युद्ध्वस्व नरकं देवी श्रान्तोऽस्मि युधि पीडितः || २८आ-१६ ||

एवमुक्त्वा तदा देवी सत्या सत्यवतां वरा |
तदा युद्धं समारेभे नरकेण दुरात्मना || २८आ-१७ ||

नाराचैरर्धचन्द्रैश्च भल्लैः सुनिशितैरपि |
जघान दानवं सत्या महिषी शार्ङ्गधन्वनः |
बबाध दानवं सत्या सत्यं सत्येतरं यथा || २८आ-१८ ||

युध्यन्तीं तां तथा दृष्ट्वा नरको दानवोत्तमः |
स्तनमध्येऽथ तस्यास्तु समाजघ्ने शरोत्तमैः |
बाह्वन्तरे तथा षट्भिः पार्श्वे सप्तभिराशुगैः || २८आ-१९ ||

सत्यभामा ततः क्रुद्ध्वा बाणेन निशितेन च |
धनुश्चिच्छेद तस्यापि नरकस्य दुरात्मनः || २८आ-२० ||

ध्वजं छत्रं तथा यष्टिं रथमश्वांस्तथैव च |
एतान्द्विधाकरोत्सर्वान्सत्यभामा बलान्विता || २८आ-२१ ||

पुनरन्यन्महच्छापमाददे दानवोत्तमः |
तच्चापि चिच्छिदे चापं महिषी शार्ङ्गधन्वनः |
पुनरन्यत्समादत्ते द्विधा तच्चापि साकरोत् || २८आ-२२ ||

ततः सः दानवः क्रुद्धो गदां सुनिशितां तदा |
आदाय प्राहिणोस्तस्यै वासुदेवस्य पश्यतः || २८आ-२३ ||

ततः शक्तिं समादाय तस्यै दातुं प्रचक्रमे || २८आ-२४ ||

सत्यभामाथ सा देवी केशवप्राणवल्लभा |
तां चापि तिलशः कृत्वा सस्वरं प्राजहास च || २८आ-२५ ||

ततः परिघमादाय व्याविध्य नरकस्तदा |
प्राहिणोच्च तदा तस्यै सान्तरे निजघान ह |
शरैश्च निशितै राजन् सत्या विव्याध दानवं || २८आ-२६ ||

तुष्टुवुश्च तदा सत्यां केशवप्राणवल्लभां |
दिवि स्थिता देवगणा ऋषयश्च तथामलाः || २८आ-२७ ||

सारथेश्च शिरः कायाच्छरेण निरकृन्तत |
शक्तिर्भगवतो देवी वासुदेवस्य धीमतः || २८आ-२८ ||

तत्र प्रीतो महाविष्णुः परिष्वज्य च तां विभुः |
श्रमांभश्चापि तस्यास्तु मार्जयामास केशवः || २८आ-२९ ||

तस्यास्तु कण्ठाभरणं ददौ प्रीतो जनार्दनः |
न दत्तमथ रुक्मिण्या दत्तं तस्या महात्मना |
महार्घं लोकविख्यातं हृतं बलिमखे तदा || २८आ-३० ||

सत्यभामा तदादाय भूष्णं लोकविश्रुत{म्} |
बध्वा कण्ठे तदा देवी रराज बहुशः शुभा || २८आ-३१ ||

असकृद्याचमानापि विहारे शयने तदा |
न हि लब्धवती पूर्वं तथा लब्धं जनार्दनात् || २८आ-३२ ||

स्थीयतां सांप्रतं देवि श्रमार्तासि वरानने |
इत्युक्त्वा धनुरादाय युयुधे दानवं रणे || २८आ-३३ ||

नरको रथमारुह्य सध्वजं सपताकिनं |
आदाय परमं चापं बाणैर् विव्याध चाष्टभिः || २८आ-३४ ||

स वासुदेवमाविध्य सत्यां च दशभिः शरैः |
गरुडं पञ्चविंशात्या वासुदेवं च सप्तभिः || २८आ-३५ ||

अथो जगत्पतिर्देवः क्रुद्धः संप्रति दानवे |
आदाय निशितं बाणं धनुश्चिच्छेद तस्य हि |
रथं च सारथिं चापि जघान यदुनन्दनः || २८आ-३६ ||

ततः क्रुद्धो रथात्तस्मादाप्लुत्य नरकस्तदा |
गदामादाय गोविन्दं जघानाविध्य वक्षसि |
गरुडं पोथयामास तलेन नरकस्तदा || २८आ-३७ ||

पुनः परिघमादाय वासुदेवं समभ्ययात् |
तदन्तरेऽथ कृष्णेन ध्विधाभूतमभज्यत || २८आ-३८ ||

ततः शिलाः समादाय प्राहिणोद्यदुनन्दनं |
ताश्च सर्वाः समाजघ्ने शरैः शार्ङ्गविनिःसृतैः || २८आ-३९ ||

शैलैर्वृक्षैस्तथा पाशैर्गदापैर्घपट्टसैः |
भिण्डिपालैस्तदा खड्गैः परशुप्रासतोमरैः || २८आ-४० ||

तद्युद्धमभवद्घोरं नरके दानवेश्वरे || २८आ-४१ ||

अथ रोष विरूपाक्षः केषवः केशिसूदनः |
हन्तुमैच्छज्जगन्नाथो नरकं दानवेश्वरम् || २८आ-४२ ||

आयुधं लोकविख्यातं देवर्षिगणपूजितम् |
दैत्यशोणितदिग्धाङ्गं दैत्यासृक्पानलालसम् || २८आ-४३ ||

आदाय निशितं चक्रं दैत्यचक्रविनाशनम् |
नरकं साधुविद्विष्टं द्विष्टं मुनिगणैः सदा |
प्रदीप्तचक्रं चक्रेण क्षिप्तेण निशितेन च || २८आ-४४ ||

नरकस्य महाबाहुर्हृदयं लोकपूजितः |
द्विधा चिच्छेद लोकेशः सर्वलोक्स्य पश्यतः || २८आ-४५ ||

2008


Source: Southern Recension of Harivamsa
Experimental utf-8 devanagari version created using ITRANS on